________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥९७॥
10000000000290090
कालिकाचार्याः समायाताः संतिन वा ? तेनोक्तमेको वृद्धः समायातोऽस्ति, नापरः कोऽपीति. तेऽप्युपाश्रयांतः समायाताः, उपलक्षिताः कालिकाचार्याः, प्रणतास्तैः, सागरचंद्रेण पश्चादुपलक्ष्य तेषां मिथ्यादुःकृतं दत्तं, हा मया श्रुतलवगर्वाध्मातेन श्रुतनिधयो यूयमाशातिता इति च कथितं. कालि| काचार्यैरुक्तं हे वत्स ! श्रुतगर्यो न कार्यः. यथा सागरचंद्रेण श्रुतमदः कृतस्तथापरैर्न श्रुतमदः कार्यः । अथ प्रज्ञाप्रकर्षे गर्वः, प्रज्ञाभावे दैन्यचिंतनं, इत्युभयथाऽज्ञानं, अतस्तत्परीषहोऽपि सोढव्यः, इति कारणादज्ञानपरीषहमाह
॥ मूलम् ॥-निरहगंमि विरओ। मेहुणाओ सुसंबुडो ॥ जो सक्ख नाभिजाणामि । धम्म कल्लाणपावगं ॥ ४२ ॥ तवोवहाणमादाय । पडिमं पडिवजओ॥ एवंपि निहरओ मे । छउमं न निअट्टई ॥४३॥ व्याख्या-अहं निरर्थकेऽर्थाभावे सति मैथुनात्कामसुखाद्विरक्तो निवृत्तः, मैथुनग्रहणं दस्त्यजत्वात, यतोऽहं दुःकर कार्य कृतवान्, योऽहं सुसंवृतो जितेंद्रियोऽपि साक्षात्स्फुटं धर्म वस्तुखभावं कल्याणं शुभं पापकमशुभमभिजानामि, यदि मैथुनान्निवृत्तोजितेंद्रियत्वेऽपि काचिदर्थ
100000000000000000
For Private And Personal Use Only