________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
११०८५॥
www.kobatirth.org
॥ मूलम् ॥ —रूवाणुराएण परिग्गहेण । उप्पायणे रक्खणसंनिओगे | वए विओगे य कहिं सुहं से | संभोगकाले य अतत्तिलाभे ॥ २८ ॥ व्याख्या — तस्य रूपलोभाभिभूतस्य प्राणिनः कुतः सुखं? तदेव दर्शयति-रूपानुरागे सति रूपानुरागेण वा रूपानुपाते सति परिग्रहेण मुर्छारूपेण हेतुना, 'उप्पायणे' इत्युत्पादने उपार्जने, तथा रक्षणसंनियोगे, रक्षणं चाऽपायनिवारणं, संनियोगश्च स्वपरप्रयोजनेषु सम्यग्व्यापारः, ततो द्वंद्वे रक्षणसंनियोगं, तस्मिन् तथा व्यये विनाशे, तथा विरहे, च पुनः संभोगकालेऽतृप्तिलाभे सति, तृप्तेः संतुष्टेर्लाभस्तृप्तिलाभः, न तृमिलाभोतृप्तिलाभस्तस्मिन्नतृप्तिलाभे सति से इति तस्य लोभयुक्तस्य जीवस्य कदापि न सुखं. पूर्व हि लोभी जोवो रूपानुरागी सन् मूर्छया रूपवद्गजतुरगकलत्रादीनामुत्पादने दुःखं प्राप्नोति, ततस्तेषामुत्पन्नानां कष्टेभ्यो रक्षणे दुःखं प्राप्नोति ततश्च संनियोगे खपरप्रयोजने सम्यग्व्यापारणे दुःखं प्राप्नोति तेषां रूपवद्गजादीनां संभोगकालेऽपि प्राप्तावतृप्तिलाभेऽपि संतोषस्याऽभावे सति दुःखं प्राप्नोति यदुक्तं-न जातकामः कामानामुपभोगेन शाम्यति ॥ हविषा कृष्णवमेव । भूय एवाभिवर्धते ॥ १ ॥ तस्मात्प
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
+-~-~Y
सटीक
|॥१०८५ ॥