________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
IDII दसटोक
॥१०८४॥
SAMRAGHORACTERIOUS
भवत्यत्यंतं रागी भवति, स च पुरुषोऽतादृशेऽसुंदरे रूपे प्रदेषं करोति. ततो बालोऽज्ञानी रागी पुमान् दुःखस्य संपोडं संघातमुपैति. विरागी मुनिस्तेन रागद्वेषजनितदुःखेन न लिप्यते, न श्लिष्यते. ॥
॥ मूलम् ॥-रूवाणुगासाणुगए य जीवे | चराचरे हिंसइ णेगरूवे ॥ चित्तेहिं ते परियावेइ बाले । पीलेइ अत्तट्ट गुरू किलिट्ठा ॥२७॥ व्याख्या-इदानीं रागस्यैव सकलाश्रवहेतुत्वमाह-क्लिष्टो रागवाधितो रागवशवर्ती बालोऽज्ञानी जीवश्चित्रैरनेकप्रकारैः शस्त्रायुपायैः कृत्वा चराचरांस्त्रसस्थावराननेकरूपवान् जीवान् पीडयति, एकदेशदुःखोत्पादनेन पीडामुत्पादयति. पुनः परितापयति, परि समंतादू दुःखयति. पुनर्हिनस्ति, प्राणेभ्यः पृथक्करोति. परं स रागी जीवः कीदृशः सन् रूपानुगाशानुगतः सन्, रूपं प्रस्तावान्मनोज्ञमनुगच्छतीति रूपानुगा, रूपानुगा चासावाशा च रूपानुगाशा रूपविषयोऽभिलाषः, तमनुगतोऽनुप्राप्तो रूपानुगाशानुगतः, तादृशः सन् सुंदररूपविलोकनमनोरथसहितः सन्नित्यर्थः. पुनः कीदृशो बालः ? ' अत्तगुरु' इत्यात्मार्थगुरुः, आत्मनः स्वस्यार्थः प्रयोजनं | ति॥१०८४॥ गुरुर्यस्य स आत्मार्थगुरुः स्वप्रयोजननिरतः, स्वार्थी पुमान् किं किं न कुर्यादिति भावः ॥ २७ ॥
For Private And Personal Use Only