________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१०८३ ॥
www.kobatirth.org
मनुष्या हि सोपक्रमायुषः स्युः क इव ? यथा वेति, वाशब्द इवार्थे यथेवालोके प्रदीप्तदीपशिखाद र्शने लोलो लंपट आलोकलोलः पतंगश्चक्षुरिंद्रियो जीवो मृत्युं समुपैति तथा रागातुरो जीवो का - लमृत्युं समुपैतीत्यर्थः ॥ २४ ॥
ध्याहारः,
॥ मूलम् ॥-जोआवि दोसं समुवेइ तिवं । तंसिं खणे से समुवेई दुक्खं ॥ दुदंतदोसेण स एण जंतु । न किंचि रूपं अवरज्झई से ॥ २५ ॥ व्याख्या -अथ द्वेषदूषणमाह-यश्चापि जीवो रूपेष्वित्ययस्मिन् क्षणे तीव्रं दोषं समुपैति, स जीवस्तस्मिन्नेव क्षणे स्वकीयेन दुर्दातदोषेण, दुर्दातं चक्षुस्तदेव दोषो दुर्दातदोषस्तेन दुर्दातदोषेण दुःखं चित्तसंतापं समुपैति परं से इति तस्य पुरुस्य रूपं किमपि नापराध्यति, न विरूपं करोति रूपस्य न कोऽपि दोष इत्यर्थः तस्य जीवस्यैव दुदतेंद्रियस्यैव दोष इत्यर्थः ॥ २५ ॥
॥ मूलम् ॥ — एगंतरत्तो रुइरंसि रूवे । अयालिसे से कुणइ पओसं ॥ दुक्खस्स संपीलमुवेइ बाले । न लिप्पई तेण मुणी विरागे ॥ २६ ॥ व्याख्या - यो मनुष्यो रुचिरे मनोज्ञे रूपे एकांतरक्तो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥१०८३ ॥