________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
KA
उत्तरा
॥१०८२॥
CHOPRAKAKKAR
गुन्नमाहु । दोसस्स हेउं अमणुन्नमाहु॥ २३ ॥ व्याख्या-तीर्थकराश्चक्षुरिंद्रियं रूपस्य विषयस्य ग्रहणं दसटोकं वदंति. गृह्णातीति ग्रहणं, कर्तरि युप्रत्ययः. रूपस्य ग्राहकं चक्षुरित्यर्थः. पुनस्तीर्थकराश्चक्षुरिंद्रियस्य रूपं विषयं ग्रहणं वदंति. गृह्यते इति ग्रहणं, ग्राह्यं, चक्षुषा ग्राह्य रूपं यच्चक्षुरिंद्रियेण ग्राह्यं तदेव रूपमि|तिभावः. अनेन रूपचक्षुषोाह्यग्राहकभावेन परस्परमुपकार्योपकारकभावेन च संबंध उक्तः, इत्यनेन । रूपं रागद्वेषकारणं, तथा चक्षुरपि रागद्वेषकारणमुक्तं. तत्समनोज्ञं चक्षुरिद्रियं रागहेतुमाहः, सह मनोज्ञेन ग्राह्येण रूपेण वर्तते इति समनोज्ञं मनोज्ञरूपग्राहक नेत्रं रागहेतुकमित्यर्थः. अमनोज्ञरूपग्राहक द्वेषस्य हेतुं हेतुकमाइः कथयति. ॥ २३ ॥
॥ मूलम् ॥-रूवेसु जो गिद्धिमुवेइ तिवं । अकालियं पावई से विणासं ॥ रागाउरे से जहा वा पयंगे । आलोयलोले समुवेई मच्चु ॥ २४॥ व्याख्या-रागस्य दूषणमाह-यः प्राणी रूपेषु तीव्रामुत्कटां गृद्धिं रागमुपैति प्राप्नोति करोति, धातूनामनेकार्थत्वात्. स प्राणी रागातुरः सन् राग- G॥१०८२॥ पीडितः सन्नकालिकमेव विनाशं प्राप्नोति, अकाले भवमकालिकं, आयुषः स्थितेरांगेव म्रियेत, यतो
ॐॐॐॐॐ
For Private And Personal Use Only