________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा.
सटीक
५१०८१॥
स्वास्थ्यं कामयते इति समाधिकामः, चित्तस्थैर्याभिलाषी तपस्वी श्रमणः साधुस्तेषु विषयेषु कदा. चिनावं चिनाभिप्रायं न सृजेन्न कुर्यात्. तेषु केषु? ये विषया इंद्रियाणां कर्णादीनां मनोज्ञा वल्लभा वर्तते. तथा च पुनर्येऽमनोज्ञा अप्रियास्तेष्वमनोज्ञेष्विंद्रियाणां विषयेषु मनो न कर्यात, इत्यनेन सुंदरेषु विषयेषु सरागं मनो न कुर्यात्, तथाऽसुंदरेषु विषयेषु सद्वेषं मनो न कुर्यात्. ॥ २१॥
॥ मूलम् ॥-चक्खुस्स रूवग्गहणं वयंति । तं रागहेउं तु मणुन्नमाहु ॥ तं दोसहेउं अमणुनमाहु । समो य जो तेसु स वीयरागो ॥ २२ ॥ व्याख्या-अथ मनोज्ञामनोज्ञयोः स्वरूपमाहचक्षुषो लक्षणं रूपग्रहणं तीर्थकरा वदंति. रूपं वर्णः संस्थानं वा तद्गृह्यतेऽनेनेति रूपग्रहणं, चक्षुरिंद्रियस्यैतल्लक्षणं. तमिति तद्रूपं रागहेतुकं मनोज्ञमाहुः. यस्मिन् रूपे दृष्टे राग उत्पद्यते तद्रूपं मनो-2 ज्ञमाहुः. तदेव रूपं द्वेषहेतुकममनोज्ञमाहुः. यस्मिन् रूपे दृष्टे द्वेष उत्पद्यते तद्रूपममनोज्ञमित्यर्थः. यः | साधुस्तेषु मनोज्ञामनोज्ञेषु रूपेषु समः सदृशवृत्तिः स्यात्, स साधुर्वीतराग उच्यते. ॥ २२ ॥
॥ मूलम् ॥-रुवस्स चक् गहणं वयंति | चक्खुस्स रूवं गहणं वयंति ॥रागस्स हेउं सम
15555
॥१०८१॥
125
For Private And Personal Use Only