________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
सटोक
॥१०८०॥
कामानुगृद्धिरिहोच्यते. ॥ १९ ॥अथ कामा एव दुःखहेतव इति वदति
॥ मूलम् ॥-जहा य किंपागफला मणोरमा | रसेण वन्नेण य भुजमाणा ॥ते खुद्दए जीविये पच्चमाणे । एओवमा कामगुणा विवागे ॥ २०॥ व्याख्या-यथा च किंपाकफलानि विषवृक्षविशेषस्य फलानि रसेन मधुरत्वेन, वर्णेन रक्तादिना, चकाराद्धेन भुज्यमानानि जनस्य मनोहराणि भवंति, तानि किंपाकफलानि क्षुद्रके जीविते तुच्छे सोपक्रमे मनुष्यायुषि पच्यमानान्युदरांतरे गत्वा विपाकावस्थां प्राप्तानि मरणांतदुःखानि भवंतीत्यध्याहारः. तथा विपाके परिपाककाले कामगुणा विषया एतदुपमाः, एतेषां किंपाकफलानामुपमा येषां ते एतदुपमाः, किंपाकफलसदृशा विषया इत्यर्थः. विषया हि भोगसमये मनोरमाः, विपाके परलोके नरकादिदुःखदायिनः ॥२०॥रागस्यैव द्वेषसहितस्यो| धरणोपायमाह
॥मूलम्॥-जे इंदियाणं विसया मणुन्ना। न तेसुभावं न सरे कयाई।नयामणुन्नेसु मणपि कुज्जा। समाहिकामे समणे तवस्ती ॥ २१ ॥ व्याख्या-समाधिकामः, समाधि रागद्वेषाऽभावेन चित्तस्य
॥१०८०॥
For Private And Personal Use Only