________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा- मुत्तरित्ता । नई भवे अवि गंगासमाणा ॥ १८ ॥ व्याख्या-मनुष्याणामेतान् स्त्रीसंबंधिसंगान् सम५१०७९॥ तिक्रम्य शेषा धनधान्यादिसंबंधाः सुखोत्तराश्चैव भवंति. सुखेनोत्तीयते इति सुखोत्तराः. यथा महा
सागरं स्वयंभूरमणसदृशं समुद्रमुल्लंघ्य गंगासमानानद्यपि सुखोत्तरा सुखोल्लंघ्यैव, तथा येन स्त्रीसंगस्त्यक्तस्तस्यान्यसंगो धनधान्यादिसंयोगः सुत्यज एव. ॥ १८ ॥ अथ रागस्य दुःखहेतुत्वमाह
॥ मूलम् ॥-कामागिद्धिप्पभवं खु दुक्ख ! सबस्स लोयस्स सदेवगस्स ॥ जे काइयं माणहैसियं च किंचि । तस्संतगं गच्छइ वीयरागो॥१९॥व्याख्या-चीतरागः पुमान् रागढेषरहितो मनु
प्यस्तस्य द्विविधस्यापि दुःखस्यांतकं पयतं गच्छति प्राप्नोति. तद् द्विविधं दुःखं कीदृशं? कायिकं, काये भवं कायिकं रोगादि, तथा मानसिकं, मनसि भवं मानसिकं, इष्टवियोगाऽनिष्टसंयोगादि. पुनर्यद्दुःखं सर्वस्य लोकस्य प्राणिगणस्य 'खु' इति निश्चयेन कामानुगृद्धिप्रभवं विषयसततसेवनोद्भुतं वर्तते. काम्यतेऽभिलष्यंते जनैरिति कामा विषयास्तेष्वनुगृद्धिः, सतताभिकांक्षा कामानुगृद्धिः, ततः प्रभवो यस्य तत्कामानुद्धिप्रभवं. कीदृशस्य लोकस्य ? सदेवकस्य देवैः सहितस्य वीतरागो विगत
*२
*॥१०७९॥
For Private And Personal Use Only