________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8| तस्य योग्यं हितं पथ्यं, धर्मध्यानस्य स्थैर्यकारकं भवति. कोऽर्थः? यदा हि ब्रह्मचर्यधारिण एतत्कुर्व- सटीक
ति, तदा तेषां धर्मध्यानं स्थिरं स्यादित्यर्थः. तत् किं किमार्यध्यानयोग्यं? तदाह-स्त्रीणामदर्शनं ११०७७॥
रागेणाऽनवलोकनं, च पदपरणे, एव निश्चये. पुनः किं? स्त्रीणामप्रार्थनमभिलाषस्याऽकरणं. पुनः18 स्त्रीणामचिंतनं, यत्कदाचिद्पादिकं दृष्टं, तस्य चेतसि न स्मरणमपरिभावनमित्यर्थः. पुनः स्त्रोणामको. तनं, नाम्ना गुणेन वा न कीर्तनमकीर्तनं, नामगुणोच्चारणस्याऽकरणं. यदि ब्रह्मचारी स्त्रीणां दर्शनं प्रार्थनं चिंतनं कीर्तनं करोति, तदा तस्यार्यध्यानस्योत्तमध्यानस्य स्थैर्य न स्यात्. एतत्तु धर्मध्यानस्य योग्यं हितं नास्ति. ॥१५॥ ननु कश्चिद्वक्ष्यति विकारहेतो सति विक्रियते येषां न चेतांसि ते एव धीराः, तत्किं विविक्तशयनासनसेवनेन? इति चेत्तत्राह
॥ मूलम् ॥-कामं तु देवीहिं विभृसियाहिं । न चाइया खोभइउं तिगुत्ता ॥ तहावि एगंतहियंति नच्चा । विवित्तभावो मुणिणं पसत्थो ॥ १६ ॥ व्याख्या-हे शिष्य ! तथापि मुनीनां विवि
॥१०७७॥ क्तभाव एकांतस्थाननिवासः प्रशस्तः. किं कृत्वा? विविक्तभावमेकांतहितं मत्वा. तथेति कथं? यद्यपि
AAMACHARSACANCARRA
For Private And Personal Use Only