________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandie
उत्तरा
॥१०७६॥
ALANCHORSEXAMROURS
स्वकीये मनसि संनिवेश्य सम्यगवधार्य दृष्टुं न व्यवसेत, दर्शनाय सोद्यमो न भवेत्. कोऽर्थः? दासटोकं साधुः स्त्रीणामेतञ्चेष्टितं हृदि धृत्वैतच्चेष्टितं दृष्टुं व्यवसायं न कुर्यात्. यतो हि पूर्व मनस इच्छायाः प्रवृत्तिः, ततश्चक्षुरादीनामिंद्रियाणां प्रवृत्तिरिति. तत् स्त्रीणां किं किं चेष्टितं? तदाह-रूपं स्त्रीणां गौरादिवर्णः. लावण्यं नयनाह्रादकः कश्चिद्गुणविशेषः, विलासो विशिष्टनयनचेष्टाविशेषः, अथवा | मंथरगतिकरणादिकः, हास्यं स्मितमीषदंतानां दर्शनं. जल्पितं मन्मनोल्लापादिकं, इंगितमंगोपांगादिमोटनं स्वचित्तविकारसूचकं. प्रेक्षितं वक्लावलोकनं. रूपं च लावण्यं च विलासश्च हास्यं च रूपलावण्यविलासहास्यानि, तेषां समाहारो रूपलावण्यविलासहास्यं. एतत्सर्व स्त्रीणां साधुना रागेण न दृटव्यमिति भावः ॥ १४ ॥
॥ मूलम् ॥-अदंसणं चेव अपत्थणं च । अचिंतणं चेव अकित्तणं च ।। इत्थीजणस्तारियझाणजुग्गं । हियं सया बंभचरे रयाणं ॥ १५ ॥ व्याख्या-ब्रह्मचर्ये ब्रह्मचर्यव्रते रतानां सावधाना- ॥१०७६॥ नां साधूनामेतदार्यध्यानयोग्यं हितं वर्तते. आयं च तध्ध्यानं चार्यध्यानं, सम्यग्ध्यानं धर्मशुक्लादिकं,
CIPASCHOOL
*-*
For Private And Personal Use Only