________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
C-
C-IG
उत्तरा
र ताय न भवति, ब्रह्मचर्यक्षयाय भवति. अद्रियशब्देनेंद्रियजनितरागो गृह्यते, इंद्रियजनितरागस्याऽ॥१०७४॥
नर्थहेतुत्वात, दवाग्नरुपमा धर्मवनदाहकत्वात्. मात्राधिकाहारकरणादिंद्रियग्रामो बलवान् भवति. E॥ ११ ॥ पुना रागायुद्धर्तुकामेन किं कर्तव्यमित्याहPI ॥ मूलम् ।।—विवित्तसयणासणतियाणं । ओमासणाणं दमिइंदियाणं ॥ न रागसत्तू धरि
सेइ चित्तं । पराइओ वाहिरिवोसहेहिं ।। १२ ॥ व्याख्या-रागशत्रू राग एव शत्रुर्वेरी रागशत्रुरेतादृशानां साधूनां चित्तं न घर्षयति, न पराभवति. एतादृशानां कीदृशानां? विविक्तशयनासनयंत्रितानां, विविक्ता स्त्रीपशुपंडकादिरहिता या शयनोपाश्रयो विविक्तशयना, तत्र यदासनं निवासो विविक्तशयनासनं, तेन यंत्रिताः सहिता विविक्तशयनासनयंत्रितास्तेषां विविक्तशयनासनयंत्रितानां एकांतस्थाननिवाससहितानां. पुनः कीदृशानां? अवमाशनानामूनाहारकारिणां पुन कीदृशानां? दमितेंद्रियाणां वशीकृतेंद्रियाणां, अर्थाद्योगिनां चित्तं रागवैरी न पराभवति. क इव? औषधैः पराजितो भेषजैस्तिरस्कृतो व्याधिरिव, यथा भेषजैर्निवारितो व्याधिदेहं पराभवितुं न शक्नोति, तथा रोगशत्रुर
द॥१०७४॥
PCIANS
For Private And Personal Use Only