________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
१०७३॥
www.kobatirth.org
रसाः शृंगारादयो दधिदुग्धघृतादयो वा प्रकाममत्यंतं रसलोलुपत्वेन न निषेवितव्याः, मुहुर्मुहुर्न सेवनीया इत्यर्थः प्रायेण रसाः सेविताः संतो नराणां दीप्तिकरा भवंति, धातुबलवीर्यादिदीप्त्युत्पादका भवंति च पुनर्दीप्तं धातुबलवीर्यादियुक्तं मनुष्यं कामाः समभिद्रवंति, विषयाः समभ्यायांति, तथा दीप्तं वनिता अभिलषंतीति भावः के कभिव? पक्षिणः स्वादुफलं द्रुममिव स्वादूनि स्वादयुक्तानि फलानि यस्य स स्वादुफलस्तं मधुरफलं वृक्षंप्रति पक्षिणस्तदभिलाषिणो ऽभिमुखमा यांति, तथा बलिष्टं दोतं पुरुषं कामा वनितादयोऽभिमुखमायांतीति भावः इत्यनेन रसप्रसेवने दोष उक्तः ॥ १० ॥ अथ सामान्येन प्रकामभोजने दोषमाह
॥ मूलमू ॥ जहा दवग्गी पउरिंधणे वणे । समारुओ नोवसमं उas || एविंदियग्गी वि पगामभोइणो । न बंभयारिस्स हियाय कस्सई ॥ ११ ॥ व्याख्या -यथा दवाग्निर्देवानलः प्रचुरंधने बहुलकाष्ठे वने लग्न उपशमं नोपैति नोपशाम्यति. कीदृशो दावानलः ? समारुतः पवनसहितः, एवं सकाष्टवनलग्नसपवनदवाग्निदृष्टांतेन प्रकामभोजिनो मात्राधिकाहारकारिणो ब्रह्मचारिण इंद्रियाग्निर्हि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥१०७३॥