SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेतापुराणं न्यायो मीमांसा धर्मशास्त्राणीति श्रवणोणाकर्षणकर्मविशेषणं करोत्येषोऽन्तरात्मा नाम ॥ २॥ अथ परमात्मा नाम यथाक्षरमुपासनीयः स च प्राणायामप्रत्याहारसमाधियोगानुमानाध्यात्मचिन्तकं वटकणिका श्यामाकतण्डुलो वालाग्रशतसहस्रविकल्पनादिभिर्न लभ्यते नोपलभ्यते । नं जायते म्रियते न शुष्यते न दह्यति न कम्पते न भिद्यते न च्छिद्यते निर्गुणः साक्षी भूतः । शुद्धो निरवयवात्मा केवलः सूक्ष्मो निष्कलो निरञ्जनो निरभिमानः शब्दस्पर्शरसरूपगन्धव जितो निर्विकल्पो निराकाङ्क्षः सर्वव्यापी सोऽचिन्त्योऽवर्ण्यश्च करणं विना वाल्ये दृष्टं यौवने न स्मरेत्परिणामवशेन पिण्डभेदात् । स्वरितस्तूदात्तानुदात्तयोरेवान्तर्भूतः "तस्याऽऽदित उदात्तमर्धह्वस्वम्" शेषमनुदात्तमिति स्मरणात्तेनात्रानुपात्तः । ह्रस्वादयः स्वरधर्माः स्खलितादयो वर्णदोषाः ॥ २ ॥ ननु परमात्मा वाङ्मनोगोचरातीतत्वात्कथं ज्ञेय इत्याशङ्कयाऽऽह-यथेति । यथाक्षरं यथोपदेशमुपास्यो ज्ञेयं तं त्वौपनिषदं पुरुषं पृच्छामीति तस्य वैदैकगम्यत्वावगमात् । मनसैवानुद्रष्टव्यमिति श्रुतेरसंस्कृतेन मनसाऽग्राह्यत्वात्तत्संस्कारानाह-प्राणायामेति । प्राणायामादिभिर्योगैरनुमानेन वाऽध्यात्मचिन्तकं प्रति प्रकाशत इति शेषः । नन्वसौ विश्वभूविश्वेभ्योऽधिकप्रमाणः कथमप्रत्यक्ष इत्याशङ्कयाऽऽह-चटकणिकेति । यथा वटकणिका वटवीजं सूक्ष्माऽपि महान्तं वटं सूत एवमसौ सूक्ष्मोऽपि जगत्सूते श्यामाकतण्डुलः सूक्ष्मोऽपि महास्तम्बं मूते तद्वदसावित्यर्थः । ननु बीजवतीव्रदृष्टीनां प्रत्यक्षोऽपि किं न स्यादत आह-वालेति । "वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चाऽऽनन्त्याय कल्पते” । इति श्रुतेरतिसूक्ष्मत्वात्सर्वथाऽप्रत्यक्ष इत्यर्थः । न लभ्यते कर्मेन्द्रियैर्नोपलभ्यते ज्ञानेन्द्रियैः । जन्ममरणशोकक्लेइदाहकम्पभेदच्छेदनिषेवैः क्रियामात्र निषिद्धम् । निर्गुण इति गुणमात्रम् । साक्षी साक्षाष्टिा । भूतः सिद्धः । शुद्धः सहनमलरहितः । निरवय. वात्मा स्वावयवभेदशून्यः । केवलः सजातीयविजातीयभेदशून्यः । सूक्ष्मो दुर्लक्षः । निष्कलः षोडशकलारहितः । निरञ्जन आगन्तुकमलरहितः । निरभिमानोऽहंकारदोषरहितः । शब्देति । बाह्येन्द्रियदोषरहितः । निर्विकल्पो मनोदोषरहितः । निराकाङ्क्ष आशादिबुद्धि दोषरहितः । ननु सूक्ष्मश्चेत्कथमाकाशादीनामात्मप्रसाद इत्यत आहसर्वव्यापीति । अत एव वालाग्रादिकल्पनाभिरित्युक्तम् । वस्तुतस्त्वणुमहत्त्वादि १ ख. 'घाणक । २ क. न नि । ३ क. ते नि । ४ ग. दुर्लभः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy