SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सब्रह्मणे नमः। आत्मोपनिषत्। नारायणविरचितदीपिकोपेता । ॐ अथैवाङ्गिरास्त्रिविधः पुरुषस्तद्यथा बाह्यात्माऽन्तरात्मा परमात्मा चेति । त्वक्चर्मनखमांसरोमाङ्गुल्यङ्गुष्ठपृष्ठीवंशनखगुल्फोदरनाभिमेदूकट्यूरुकपोलध्रुवौ ललाटबाहू पार्थशिरोधमनिकाक्षीणि श्रोत्राणि भवन्ति जायते म्रियतें इत्येष वाह्यात्मा नाम ॥१॥ अथान्तरात्मा नाम पृथिव्यप्तेजोवाय्वाकाशेच्छाद्वेषसुखदुःखकाममोहविकल्पनादिभिः स्मृतिलिङ्ग उदात्तानुदात्तहस्वदीर्घप्लुतस्खलितगर्जितस्फुटितमुदितनृत्यगीतवादित्रालयविजृम्भितादिभिः श्रोता घाता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः आत्मत्रयीपराऽऽत्मोपनिषत्खण्डत्रयान्विता । अष्टाविंशी ग्रन्थसंघे शाखा शौनकवर्तिता ॥ १ ॥ पिण्डग्रहणे विरक्तस्य परमात्मानं बोधयितुं शाखाचन्द्रन्यायेनाऽऽत्मद्वयं निरूप्य निर. अनं संसारातीतं परमात्मानं निरूपयितुमिदमारभ्यते-अथैवाङ्गिरा इति । अथ ब्रह्मणा देवर्षीन्प्रति पिण्डनिरूपणानन्तरं तद्विमोक्षार्थोऽङ्गिरा उवाचेति शेषः । बाह्यात्मादयो वक्ष्यमाणलक्षणाः । जायते म्रियत इति प्रत्याहारेण षड्भावविकारा गृह्यन्ते यास्कोक्तास्ते यथा-"जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते नश्यति च" इति । ये च पञ्चविंशतिस्त्वगादयो भवन्ति षड्भावविकाराश्च स बाह्यात्मा नामेत्यन्वयः । चर्म त्वङ्मध्यभागः । नखानि हस्तपादभेदेन द्विरुक्तानि । पृष्ठी कट्यूद्धभागः । मेदूं लिङ्गम् । उर्वन्तः समाहारद्वंद्वः । कपोलसहिते स्रवौ ललाटसहितौ बाहू पार्थादिसहितान्यक्षीणि चतूंषि ॥ १॥ - पृथिव्यादिविजृम्भितादिपर्यन्तैरुपलक्षितो विज्ञानात्मा बुद्धिमयः कर्मसामान्यस्य श्रवणादिलक्षणं विशेषणं यः करोति सोऽन्तरात्मेत्यन्वयः । स्मृतिलिङ्गोऽन्यथाऽन्तः . १ ख. त्वगस्थिमा । २ ख. सलोमाङ्गुष्ठ । ३ ख. 'ठीवसान । ४. °त एष । ५ क. 'तनुं। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy