SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आत्मोपनिषत् । पुनात्यशुद्धान्यपूतानि निष्क्रियः संस्कारो नास्ति संस्कारो नास्त्येष परमात्मा पुरुषो नाम ॥ ३ ॥ इत्यथर्ववेद आत्मोपनिषत्समाप्ता ।। ५ ॥ परिमाणरहित एव स्वमहिम्ना सर्व व्याप्नोति भगवानत एव स ईश्वरोऽचिन्त्योऽवर्ण्यश्च । अशुद्धानि चाण्डालादीन्यपूतानि पापादिदुष्टानि सत्त्वानि निष्क्रियोऽपि ध्यानस्थः पुनाति । यद्यप्यागमशास्त्रे ज्ञानात्माऽपि चतुर्थ उक्तः शरीरान्तःकरणजीवपरमात्मभेदेन तथाऽपि जीवपरमात्मनोरभेदमाश्रित्येह त्रिधैवोक्तः । तदुक्तं गीतासु "द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः” इति । इदमात्मचतुष्टयं प्रणवस्याकारोकारमकारात्परं बिन्दुनादशक्तिशान्ताख्यावस्थाचतुष्टयात्मकं द्रष्टव्यम् । संस्कारः पूर्वप्रज्ञा स नास्ति । स्वतोऽसङ्गत्वात् । द्विरुक्तिः समाप्त्यर्था ॥ ३ ॥ नारायणेन रचिता श्रुतिमात्रोपजीविना ॥ अस्पष्टपदवाक्यानामात्मोपनिषद्दीपिका ॥१॥ इति श्रीनारायणविरचिताथर्ववेदान्तर्गतात्मोपनिषद्दीपिका समाप्ता ॥ ७ ॥ १ ग. 'वस्थाका । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy