________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७८ शंकरानन्दविरचितदीपिकासमेतापाणि तेष्वर्थः प्रयोजनं यस्यास्ति स धान्यार्थी । तथा ज्ञानविज्ञानतत्परस्त्यजेत्परित्यजेत् । ग्रन्थं शब्दराशिम् । अशेषतः सर्वतः ॥ १८ ॥
ननु वेदानामनेकशाखाभेदभिन्नत्वात्कस्याः शाखाया वचनं ब्रह्मज्ञानहेतुत्वेनाङ्गीकरणीयमित्याशय दृष्टान्तेन यस्याः कस्या यासां कासांचिद्वा समानार्थानामङ्गीकरणीयमित्याह
___ गवामनेकवर्णानां क्षीरस्याप्येकवर्णता ।।
क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥ १९ ॥ गवां सास्नादिमतीनामनेकवर्णानां शुक्लकृष्णहरितलोहितपाटलादिवर्णानां क्षीरस्य पयसस्तनेभ्यो निर्गतस्याप्येकवर्णता । अपिशब्द एवकारार्थः । शुक्लवर्णतैव न गोवद्विचित्रवर्णतेत्यर्थः । क्षीरवद्यथा क्षीरमेकवर्णं तद्वद्बुद्धिमान्विविधभेदाभ्यः शाखाभ्यः पश्यते पश्यत्यवगच्छति । ज्ञानमहं ब्रह्मास्मीतिबोधरूपम् । लिङ्गिनस्तु सांख्यायनकौषीतकीमाध्यंदिनकठकाण्वतैत्तीरीयकौथुमनारायणीयाथर्वशिरस्तापनीयेत्यादिलिङ्गानि तत्तन्नामाङ्कभूतानि येषामनेकशाखाभेदवतामृगादीनां सन्ति तालिङ्गिनः पुनर्विचि. त्रवर्णान्पश्यत इति पूर्वेणानुषङ्गः। तत्र दृष्टान्तमाह-गवां यथा गा यथैकार्थकारिणीस्तथेति शेषः ॥ १९ ॥
एवं सर्वासां श्रुतीनां विज्ञानकारणत्वमुक्त्वा पुनर्मनसः स्वाधीनस्याभावे तत्त्वमसीत्यादिबोधो न जायत इत्यभिप्रायेणाऽऽह
__ घटमिव पयसि निगूढं भूते भूते वसति विज्ञानम् ।।
सततं मन्थे भङ्ग मनसा मन्थानभूतेन ॥ २० ॥ घटमिव घट इव घटाकारो नवनीतपिण्ड इव पयसि क्षीरे निगूढं नितरां संवृतमनाविर्भूतस्वरूपमित्यर्थः । भूते भते शरीरे शरीरेऽन्तःकरणादिके । भूतपदाम्यासश्चतुर्विधशरीरग्रहणार्थः । वसति निवासं करोति । विज्ञानं विज्ञप्तिरूपमानन्दात्मस्वरूपम् । सततं निरन्तरं मन्थानुचिन्तयेत्यर्थः । भङ्ग भग भमात्मस्वरूपं स्वयंप्रकाशमानं गच्छति प्राप्तुमुद्यतो भवत्यधिकारी भगः । भग एव भङ्गस्तस्य संबोधनम् । मनसाऽन्तःकरणेन मन्थानभूतेन मथिभूतेन चिन्तनसाधनेनेत्यर्थः ॥ २० ॥ इदानीमात्मानं सर्वभूतगुहाशयं निधिमिव प्राप्नुयादित्याह
ज्ञाननेत्रं समादाय उद्धरेद्वह्निवत्परम् ।।
निष्कलं निश्चलं शान्तं तद्ब्रह्माहमिति स्मृतम् ॥ २१ ॥ ज्ञाननेत्रं ज्ञानमहं ब्रह्मास्मीतिबोधरूपं तदेव ब्रह्मावलोकने कारणं ज्ञाननेत्रं समा
१ क. श्यति ज्ञा'। २ क. ख. न्ययितव्यं म। ३ क. निष्क्रियं । ग. निर्मलं । ४ क. नित्यं । ५ क. माद्वयमस्म्यहम् ।
For Private And Personal