________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अमृतबिन्दूपनिषत् । दाय सम्यक्संशयविपर्ययराहित्येन स्वीकृत्योद्धरेदुद्धरणं कुर्यात् । वह्निवद्वह्निसमानवर्णसुवर्णवत् । परं निरतिशयं ब्रह्म । अथवा मध्ये च ज्ञाननेत्रं मथो विलोडनकारणभूता रज्जुर्मथनाग्नेरपि जायमानत्वाद्वद्भिवदिति प्रसिद्धो द्वितीयो दृष्टान्तः । इदानी ज्ञानमनुकृत्याऽऽह-निष्कलं निश्चलं शान्तं तद्ब्रह्माहम् । निश्चलं विक्रियालेपशून्यम् । शान्तमविद्यादिदोषरहितम् । व्याख्यातमन्यत् । इतिमा॑नानुकरणार्थः । स्मृतं चिन्तितमवगतं विद्वद्भिरित्यर्थः ॥ २१ ॥
ब्रह्मात्मनोः सामानाधिकरण्यस्योक्तत्वाद्ब्रह्मवासुदेवशब्दयोरैकार्थ्यमङ्गीकृत्य वासुदेवशब्दार्थं दर्शयन्ती शास्त्रार्थमुपसंहरति
सर्वभूताधिवासं यद्भूतेषु च वसत्यपि ॥ सर्वानुग्राहकत्वेन तदस्म्यहं वासुदेवस्तदस्म्यहं
वासुदेव इति ॥ २२ ॥ ॐ भद्रं कर्णेभिः । ॐ स्वस्ति न इन्द्रोः । ॐ शान्तिः शान्तिः शान्तिः ।।
इत्यथर्ववेदेऽमृतबिन्दूपनिषत्समाप्ता ॥ ४ ॥ सर्वभूताधिवासं निखिलस्थावरजङ्गमानामधिकनिवासभूतम् । भूतेषु च चकार एवकारार्थः । तेष्वेव वसत्यधिनिवासं करोति च । अपिकार एकस्याऽऽधाराधेयत्वस. मुच्चयार्थः । सर्वानुग्राहकत्वेनैकस्याऽऽधाराधेयत्वे हेतुरयं सर्वस्यानुग्राहकत्वेन हेतुना तद्ब्रह्म वासुदेवात्मकमस्मि भवामि । अहमानन्दात्मस्वरूपस्ततो भेदरहितो वासुदेवः सर्वाणि भूतानि मयि वसन्त्यहं सर्वेषु वसामीति । वासुदेवः स्वयंप्रकाशः । वासुश्चासौ देवश्च वासुदेवः । तदस्म्यहं वासुदेवः । व्याख्यातम् । वाक्याभ्यास उपनिषत्समाप्त्यर्थः ॥ २२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यानन्दात्मपूज्यपादशिप्यस्य शंकरानन्दभगवतः
कृतिरमृतबिन्दूपनिषद्दीपिका समाप्ता ॥ ६ ॥
१ क. 'न वासुदेवस्तदस्म्यहं वासुदेवस्तदस्म्यहमिति ।
For Private And Personal