________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शंकरानन्दविरचितदीपिकासमेताननु नभःसमानश्चेदचेतनोऽपि स्यादत आह
घटवद्विविधाकारं भिद्यमानं पुनः पुनः॥
तद्भग्नं न च जानाति स जानाति च नित्यशः॥ १४ ॥ घटवत् , यथा घटस्तद्वद्विविधाकारमनेकाकारं देहादिकं भिद्यमानं विनाशं गच्छत् । पुनः पुनर्भूयो भूयः । यथा घटादिकं विनश्यति पुनः पुनर्न नभः सर्वगतं तथा देहादिकं विनश्यति पुनः पुनर्नाऽऽत्मा सर्वगत इत्यस्मिन्नंशे दृष्टान्तो न त्वचेतनांश इत्याह-तद्भग्नं च । घटादिगमनादावपि नभो न जानाति घटादिकं विनष्टमित्यादि नावगच्छति । स दान्तिकभूतः स्वयंप्रकाश आनन्दात्मा जानाति च सर्वमिदमवगच्छतीत्यपि । चकारः सर्वानन्यत्वात्मुखित्वादिकमप्याह । नित्यशः सर्वशः ॥ १४ ॥ नन्वेवं चेदयं सर्वज्ञः कस्मात्सर्वदाऽऽनन्दात्मानं नावगच्छतीत्यत आह
शब्दमायाहतो नैव तमसा याति पुष्करे ॥
भिन्ने तमसि चैकत्वमेक एवानुपश्यति ॥ १५ ॥ शब्दमायावृतः शब्दरूपा वस्तुशून्या मायाऽघटमानविधानपटीयस्यविचारितरमणीया शक्तिस्तयाऽऽवृतोऽहमानन्दात्माऽस्मीतिबोधशून्यः शब्दमायावृतः शब्दादिस्थूलसूक्ष्मप्रपञ्चैकारणभूतया वा माययाऽऽवृतो नैव तमसाऽऽयाति पुष्करे यथा लोके गाढतमसाssवृतश्चक्षुष्मान्सर्वज्ञोऽपि पुष्करे क्षेत्रविशेषेऽन्यस्मिन्वा पुष्करे देशे वस्तुनि वा तत्समीपस्थोऽपि नाऽऽयात्येव तद्वच्छब्दमायावृतस्तमसा शब्दमायारूपेणाज्ञानेन हेतुना पुष्करे पुण्य. रूप आनन्दात्मनि रलयोरक्येन पुष्कले वा सर्वगते तस्मिन्नैव याति न गच्छत्येव । भिन्ने तमसि च यथा लोके प्रदीपादिप्रकाशेन तस्मिंस्तमसि भिन्ने पुष्करे गच्छति तद्वदहं ब्रह्मास्मीतिबुद्धिप्रदीपकतया भिन्ने भेदं गतवति विनष्ट इत्यर्थः । तमसि च शब्दमायारूपेऽज्ञाने । चशब्दाच्छब्दमायासंस्कारेऽपि । एकत्वं जीवब्रह्मणोरैक्यमेक एव द्रष्टुट्टश्यादिविभागशून्य एव न तु तद्वान् । अनुपश्यति तमसो भेदमनु पश्चात्साक्षात्करोति ॥ १५ ॥ इदानी प्रासङ्गिकं योगफलं परिसमाप्य पुनर्योगमाह
शब्दाक्षरं परं ब्रह्म तस्मिन्क्षीणे यदक्षरम् ॥
तद्विद्वानक्षरं ध्यायेद्यदिच्छेच्छान्तिमात्मनः ॥ १६ ॥ शब्दाक्षरं शब्दरूपमोमित्येतदक्षरं शब्दाक्षरं प्रथमतः परं ब्रह्मोत्कृष्टं ब्रह्म पर ब्रह्मदृश्याऽवगतमित्यर्थः। तस्मिशब्दाक्षरे क्षीणे विनष्टे यत्प्रसिद्धमक्षरमविनाश्यानन्दात्मरूपं
१ क. कले। भि। २ घ. चकर' ।
For Private And Personal