SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अमृतबिन्दूपनिषत् । एक एव भेदरहितोऽविकार्येव न तु विपरीतः । आत्माऽहंप्रत्ययव्यवहारयोग्यः स्वयंप्रकाशो बुद्धेर्द्रष्टा । मन्तव्योऽवगन्तव्यः । कुत्र जाग्रत्स्वमसुषुप्तिषु जाग्रतीन्द्रियैविषयोपलम्भरूपे स्वप्ने वासनामात्रविषयोपभोगे सुषुप्तावशेषविशेषविज्ञानोपरमरूपायां च तासु । नन्ववस्थाजन्मना तद्विशिष्टस्यापि जन्म स्यादित्यत आह-स्थानत्रयव्यतीतस्य तिष्ठत्येतेष्वात्मेति जागरणादीनि स्थानानि तेषां त्रयं त्रिसंख्यावैशिष्ट्यं तस्माद्यतीतो गतस्तस्य तुरीयस्येत्यर्थः । पुनर्भूयः सकृद्भ्रान्त्योत्पादो यो जातस्तस्मादनन्तरमित्यर्थः । अहं ब्रह्मास्मीति ज्ञाने जाते जन्म न विद्यते उत्पादो नास्ति । कुत्रचित्कदाचित्कथंचित्कस्यचिदिति शेषः ॥ ११ ॥ नन्वेकस्य कथमनेकत्वप्रतिभास इत्यत आह एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।। एकथा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२ ॥ एक एव स्वगतसनातीयविजातीयभेदशून्य एव हि यस्माद्भुतात्मा भूतानां स्थावरजङ्गमानामात्मा भूते भूते तस्मिंस्तस्मिञ्शरीरे । भूतशब्दाभ्यासश्चतुर्विधशरीरसंग्रहार्थः । व्यवस्थितो विविधं तत्तच्छरीरान्तःकरणादिसादृश्यमवलम्ब्यावस्थितोऽवस्थानं प्राप्तः । तस्मादेकथा स्वयंप्रकाशचिदानन्दात्मनैकप्रकारेण बहुधा चैवानेकशरीरादिप्रकारेणापि । चकारावधाऽपि । एवकारस्त्वेकऽत्यनेन संबध्यते । एकधैव सन्बहुधाऽपि दृश्यत इति योजनीयम् । अथवेवकारार्थ एधकारः। उपाधेरेकत्वेनैकधेवोपाधेर्बहुत्वेन बहुधेव च दृश्यत इति योजनीयम् । दृश्यतेऽवलोक्यते । एकस्यैवैकधा बहुधी चावलोकने दृष्टान्तमाह-जलचन्द्रवत् । यथा जलपूर्ण देशेऽनेकपात्रसंतते गगनमण्डलगतो गोपतिरेक एव संतते जले प्रतिविम्ब एकधेव शरावादिषु प्रतिबिम्बतश्च बहुधेव दृश्यते तद्वत् । अयं प्रतिबिम्बपक्षे दृष्टान्त एकजीवत्वेऽनेकजीवत्वेऽपि योजयितुं शक्यः । खारस्यं त्वेकनीवत्वे ॥ १२ ॥ इदानीमुपहितो जीव इति पक्षमाश्रित्य दृष्टान्तमाह घटसंवृतमाकाशं नीयमाने घटे यथा ।। घटो नीयेत नाऽऽकाशं तथा जीवो नभोपमः ॥ १३ ॥ घटसंवृतं घटेन सम्यग्वृतं घटसंवृतमाकाशं नभो नीयमाने देशादेशान्तरं प्राप्यमाणे घटे कलशे । यथा येन प्रकारेण घटः कलशो नीयेत देशाद्देशान्तरं प्राप्येत नाऽऽकाशं न नभः । तथा तेन प्रकारेण जीवः प्राणानां धारयिताऽऽत्मा प्राणेषु परलोकादौ नीयमानेषु यमादिना न नीयते । तत्र हेतुः । नभोपमः, नभउपमो यतो बभसा समस्तस्मात् ॥ १३ ॥ १ घ. या वाऽव' । २ ग. 'लप्रदे । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy