SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शंकरानन्दविरचितदीपिकासमेतारूपा वस्तुशन्या वा प्रत्यया यस्मात्तन्निर्विकल्पम् । निरञ्जनं निर्गतमञ्जनं सर्वकारणमविद्या यस्मात्तन्निरञ्जनम् । एतादृशं ब्रह्म ब्रह्मवादिनः प्रसिद्धमित्याह तदुक्तं प्रसिद्धं ब्रह्म सर्वपरिच्छेदशून्यं बृहत् । अहमम्मत्प्रत्ययव्यवहारयोग्यस्वयंप्रकाशमानचिदानन्दात्मा ब्रह्मणो भेदरहितः । इत्यनेन प्रकारेण ज्ञात्वा साक्षात्कृत्य ब्रह्मोक्तं स्वात्माव्यतिरिक्तं संपद्यते संपन्नो भवति । ब्रह्मैव सन्ब्रह्माप्येतीत्यर्थः । ध्रुवं निश्चलं कूटस्थम. विनाशीत्यर्थः ॥ ८ ॥ विद्वत्प्रसिद्धौ हेतुमाह निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् ।। अप्रमेयमनादिं च यज्ज्ञात्वा मुच्यते बुधः ॥ ९ ॥ निर्विकल्पं व्याख्यातम् । अनन्तं च देशकालवस्तुपरिच्छेदशून्यम् । चशब्दात्स. त्यज्ञानादिलक्षणमपि । हेतुदृष्टान्तवर्जितं हेतृतीयान्तं पञ्चम्यन्तं वा वचनं कस्यचिदर्थस्य साधकं दृष्टान्तो यस्य कथनेन लौकिकपरीक्षकबुद्धिप्रसादस्ताभ्यामनुमानं लक्षितं तद्वर्जितमनुमानागम्यमित्यर्थः । न केवलमनुमानागम्यं किं त्वप्रमेयं प्रमाणमात्रागम्यम् । अनादि चाऽऽदिः कारणं तच्छ्न्यमनादिमनादीत्यर्थः । चशब्दाद्विकारान्तरशून्यमपि । यत्प्रसिद्धं ज्ञात्वा साक्षात्कृत्य मुच्यतेऽविद्यादिभ्यो विमुक्तो भवति । बुधो ज्ञानी तस्मात्प्रसिद्धमित्यर्थः ॥ ९ ॥ ननु मनसो निरोध उत्पत्तिश्च तदीयैर्धभैरसङ्गोदासीनस्य पुरुषस्य श्लेषश्चेदङ्गीकृतो वास्तवस्तथा तद्वत्त्वमेव स्यादित्यत आह न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ॥ न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ १० ॥ न निरोधो निरोधो विनाशो मनसः शरीरादेवा वास्तवो न न चोत्पत्तिः प्रादुर्भावो मनसोऽन्यस्य वा वास्तवो नापि । नन्वहं बद्धः साधको मुमुक्षुर्मुक्तश्चेत्यादिप्रत्ययः प्रत्यक्ष इत्यत आह-न बद्धो बद्धोऽविद्यादिरशनाभिर्वस्तुतो न । न च साधकः साधकः संन्यासब्रह्मचर्यादिसाधनगुणानुष्ठाता वस्तुतो न । चकारात्कर्तेत्यादिरपि न । न मुमुक्षुमोक्षेच्छावान्वस्तुतो न । न वै मुक्तः प्रसिद्धोऽविद्यादिबन्धनगणैर्विमुक्तो न । यदेतन्निरोधोत्पत्त्यादिकं मनसः स्वस्यान्यस्य वा प्रतीयते तत्सव मिथ्यैव न तु वास्तवमित्यर्थः । इत्यनेन प्रकारेण या बुद्धिरेषोक्ता साक्षिप्रत्यक्षा परमार्थता परमार्थभावो वास्तवीत्यर्थः ॥ १० ॥ नवात्मा जागरणम्वप्नसुषुप्तानि प्रतिपद्यते । न चैकस्याविकृतस्य तत्रयं ततः कथं निरोधाद्यभाव इत्यत आह एक एवाऽऽत्मा मन्तव्यो जाग्रत्स्वमसुषुप्तिषु ॥ स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते ॥ ११ ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy