________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अमृतबिन्दूपनिषत् । मान इत्यर्थः । चशब्दात्कण्ठश्रमोऽपि । अपि च ग्रन्थलक्षणेनापि नातोऽधिकोऽर्थ इत्याह-विस्तरः शब्दप्रपञ्च एव ॥ ५ ॥ मनोनिरोधे सति परमपुरुषार्थता कथमित्यत आह
नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव तत् ।।
पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा ॥ ६ ॥ नैव चिन्त्यं यस्मात्परमं पदं मनोनुकूलशब्दादिरूपत्वेन चिन्तार्ह नैव । तहिं किं प्रतिकूलशब्दादिरूपमित्याशक्य नेत्याह-न चाचिन्त्यं चिन्तानह दुष्टशब्दादिरूपमपि न । चकारः शब्दाद्यगोचरत्वमप्याह । ननु माऽस्तु शब्दादिरूपं मा च शब्दादिविषयः किंतु तजन्यसुखरूपमस्त्वित्यत आह । न चिन्त्यं चिन्तानह वैषयिकसुखरूपं न । तर्हि किं दुःखरूपमित्याशङ्कय नेत्याह-चिन्त्यमेव चिन्तार्हतोपलक्षितस्वयंप्रकाशमाननित्यनिरतिशयानन्दस्वरूपमेवे न त्वन्यत् । तत्सत्यज्ञानादिलक्षणं प्रसिद्धम् । पक्षपातविनिर्मुक्तं हस्तिपुत्तिकादिशरोरेप्वेकरूपेण वर्तमानम् । ब्रह्म बृहत्सर्वस्मादधिकं देशकालवस्तुपरिच्छेदशन्यमित्यर्थः । संपद्यते मनः सम्यगशेषव्यापारशून्यत्वेन प्राप्तं भवति । तदा तस्मिन्मनसो निरोधावसरे । तस्मात्परमपुरुषार्थतेत्यर्थः ॥ ६ ॥ मनोनिरोधं परमपुरुषार्थमुक्त्वा तत्रोपायमाह
स्वरेण संधयेद्योगमस्वरं भावयेत्परम् ॥
अस्वरेणानुभावेन भावो वाऽभाव इष्यते ॥ ७॥ स्वरेण स्वरशब्दोपलक्षितेन प्रणवेन संधयेत्संधारयेदकाराद्याभिर्मात्राभिर्यथोपदेशं ध्यानं कुर्यादित्यर्थः । योगं चित्तवृत्तिनिरोधनमहं ब्रह्मास्मीतिबोधफलम् । प्रणवे स्थैर्ये जाते ततोऽस्वरं प्रणवं भावयेत्प्रत्ययावृत्तिं कुर्यात् । परमनन्तरमस्वरेणोक्तेनानुभावनाहं ब्रह्मास्मीत्यनुभवफलेन भावनेनाभावोऽविद्यातत्कार्यादीनामसत्त्वं भाव इष्यते सर्वपरिच्छेदहीनस्य ब्रह्मणः सत्ताऽङ्गी क्रियते । सच्चिदानन्दरूपं ब्रह्मावशिप्यत इत्यर्थः ॥ ७ ॥ इदानीमस्य भावस्योक्तरूपतामाह
तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् ॥
तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् ॥ ८ ॥ तदेवाविद्यादीनामभावे प्रसिद्धं सत्त्वमेव न त्वन्यत् । निष्कलं निर्गताः प्राणश्रद्धाखवायुज्योतिरप्पृथिवीन्द्रियमनोनवीर्यतपोमन्त्रकर्मलोकनामरूपाः कला यस्मात्तन्निप्कलम् । ब्रह्म सर्वस्मादप्यधिकम् । निर्विकल्पं निर्गता विकल्पा इदमनिदं वेत्यादि
१ ख. ग. चिन्त्यमचि' । २ ग. व नान्य । ३ ग. रोधम ।
For Private And Personal