SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शंकरानन्दविरचितदीपिकासमेताभयं क्रोधमथाऽऽलस्यमतिवमातिजागरम् ॥ अत्याहारमनाहारं नित्यं योगी विवर्जयेत् ।। २७ ।। इदानीं योगप्रतिकूलान्याह-भयमरण्यादावेकाकित्वेन निवसतः संत्रासस्तम्।क्रोध स्वस्यानिष्टकारिण्यनिष्टकारकस्य द्वयोर्वा व्यापारस्तम् । अथापि । आलस्यं सति सामर्थे ज्ञाने च योगाङ्गसेवापराङ्मुखत्वम् । अतिस्वमातिजागरमत्यधिकं चतुष्प्रहरमष्टप्रहरं वाऽनेकशब्दस्पर्शादिसापेक्षवोधनं स्वप्नः शयनमत्यधिकमनिमीलितनेत्रत्वेन वीरासनाद्यवस्थानपुरःसरं जागरणं जागरोऽतिस्वप्नश्चातिजागरश्चातिस्वप्नातिजागरं तत् । अत्याहारमत्यधिको भुक्तस्थानात्क्लेशेनोत्थानादिलक्षण आहारोऽत्याहारस्तम्। अनाहारमुपवासम् । नित्यं सदा । योगी षडङ्गयोगवान् । विवर्जयेत् । स्पष्टम् ॥ २७ ॥ अनेन विधिना सम्यनित्यमभ्यस्यतः क्रमात् ॥ स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैन संशयः ॥२८॥ भयाद्यनुष्ठाने योगविघातो दृष्टोऽनर्थो यतः । अनेनोक्तेन विधिना प्रकारेण । सम्यग्यथावत् । नित्यं सर्वदाऽभ्यस्यतोऽभ्यासं कुर्वतः क्रमाच्छनैः शनैः । वयमुपदेशमन्तरेण समाधिस्थस्योत्पद्यते जायते । ज्ञानं दूरशब्दादिश्रवणादिकम् । तत्र कालस्येयत्तामाह-त्रिभिर्मासैः । स्पष्टम् । न संशयः । नित्यं निरन्तरं मासत्रयमभ्यस्य. तश्चित्रशब्दादिविषयं ज्ञानं भवति न वेति संशयो न करणीय इति शेषः ॥ २८ ॥ चतुर्भिः पश्यते देवान्पश्चभिर्विततक्रमः ॥ इच्छयाऽऽग्नोति कैवल्यं षष्ठे मासि न संशयः ॥ २९ ॥ चतुर्भिः , चतुर्भिर्मासैः । पश्यते पश्यति देवान्खेचरानन्तर्धानादिमतः । पञ्चभिः पञ्चभिर्मासैः । विततक्रमो विस्तीर्णबोधः सर्वज्ञ इत्यर्थः । तथाच सर्वज्ञे जाते देवाना. मपि प्रतिभातत्वादिच्छया मुमुक्षुश्चेन्माक्षेच्छया प्राप्तब्रह्मज्ञान आमोति प्राप्नोति । कैवल्यं केवलस्य स्वयंप्रकाशस्याऽऽनन्दात्मनो भावः कैवल्यम् । षष्ठे मासि न संशयः । स्पष्टम् ॥ २९ ॥ पार्थिवः पञ्चमात्रः स्याचतुर्मात्रस्तु वारुणः ॥ आग्नेयस्तु त्रिमात्री हि वायव्यस्तु द्विमात्रकः ॥ ३० ॥ इदानीं पृथिव्यादीनां गुणसंख्यया योगमाह-पार्थिवः पृथिवीसंबन्धी । पञ्चमात्रः पञ्च मात्रा यस्य विधारणे स पञ्चमात्रः प्रणवाभेदाद्योगस्य विवक्षितत्वात् । प्रणवमात्राभिः पञ्चमात्रत्वमस्य । यद्यपि प्रणवस्त्रिमात्रस्तथाऽप्युच्चारणविशेषात्पञ्चमात्रोऽपि भवति । स्याद्भवेत् । चतुर्मात्रः । स्पष्टम् । त्वेव । वारुणो वरुणस्यायं वारुण आप्य इत्यर्थः । १ ग. 'धिस्तस्यो । २ ख नोऽसौ वा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy