________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६५
अमृतनादोपनिषत् । अघोषमव्यञ्जनमस्वरं च यदतालुकण्ठमननुनासिकं च यत् ॥
अरेफजातमुभयोष्मवर्जितं यत्तदक्षरं न क्षरते कैदाचित् ॥ २४ ॥ इदानीमात्मस्वरूपमोंकारध्येयमाह-अघोष घोषाक्षराणि वर्गतृतीयचतुर्थहकारास्तव्यतिरिक्तमघोषम्। अव्यञ्जनं कादीनि व्यञ्जनानि तद्व्यतिरिक्तमव्यञ्जनम्। अस्वरं चाकारादिरहितमपि । चकारादोंकारादपि व्यतिरिक्तम् । यत्प्रसिद्धम् । अतालुकण्ठं तालुकण्ठादिस्थानव्यतिरिक्तमतालुकण्ठम् । अननुनासिकं च, अनुनासिका वर्गपञ्चमा बिन्दुसहितास्तद्ध्यतिरिक्तमननुनासिकमपि । अयं चकारः सर्वप्रयत्नादिरहितमपीत्याह । य
प्रसिद्धम् । अरेफजातं रेफसमूहवर्जितम् । उभयोष्मवर्जितमुभय उप्माणः शषसहा विसर्जनीयाश्च तैर्वनितमुभयोष्मवर्जितम् । यत्प्रसिद्धम् । यतस्त्रिवारमभिधानं बुद्विद्रष्टुत्वेन स्वयंप्रकाशत्वेन श्रुतिगम्यत्वेन च प्रसिद्धिकथनार्थम् । तदशेषवर्णव्यतिरिक्तमुक्तम् । अक्षरमक्षरशब्दवाच्यं व्याप्तम् । न क्षरते न क्षरति न विनश्यति । कदाचित्कस्मिन्नपि काले ॥ २४ ॥
येनासौ पश्यते मार्ग प्राणस्तेन हि गच्छति ॥
अतस्तमभ्यसेन्नित्यं यन्मार्गगमनाय वै ॥ २५ ॥ इदानीमस्य स्वयंप्रकाशत्वमाह-येन प्रसिद्धेन प्रकाशान्तरनिरपेक्षेण बोधेन । असावन्तःकरणवृत्तिरूपो बोधः । पश्यते पश्यति । मार्ग प्राणसंचलनपथम् । प्राणस्तेन हि गच्छति यस्मात्तेन मार्गेण प्राणो गच्छत्यतोऽस्मात् । तमुक्तमार्गावलोकनहेतुभूतम् । अभ्यसेत्स्वाधीनचिन्तनं कुर्यात् । नित्यं सर्वदा । यत्प्रसिद्धं स्वयंप्र. काशम् । मार्गगमनाय प्राणपथसंचरणनिमित्तम् । वै प्रसिद्धम् ॥ २५ ॥
हृवारं वायुद्वारं च मूर्धद्वारं तथा परम् ॥ ___ मोक्षमार्गविलं चैव सुपिरं मण्डलं विदुः ॥ २६ ।। इदानी मार्गानाह-हवारं हृदयपद्मच्छिद्रम् । वायुद्वारं च प्राणप्रभञ्जनद्वारमपीडापिङ्गलादिकं सुषुम्नाप्रधानं चकारादनुक्तान्यपि द्वाराणि । मूर्धद्वारं कपालत्रयसंधि दशमद्वारम् । तथा तद्वत् । अपरमन्यत् । मोक्षमार्गविलं चैव । मोक्षोऽविद्यादेनिवृत्तिस्तस्य मार्गो ब्रह्मज्ञानं तस्य बिलं बिलमिव क्वचित्सूक्ष्मं क्वचिद्विस्तीर्ण क्वचिद्भास्वरं क्वचित्तमस्व्येव न त्वन्यथा । चकारात्संसारमार्गविलमपि । इदानीं मोक्षमार्गविलं स्वयमाह-सुषिरं छिद्रवन्मण्डलं वर्तुलाकारम् । एतदुक्तं भवति । आधारचक्रमार. भ्याशेषनाडीनिर्वाहकारिणी सर्वपद्मस्पर्शा पश्चिमवाहिनी सुषुम्ना तल्लग्नं कपालकुहरान्तवर्ति चन्द्रमण्डलमिति । विदुर्जानन्ति सन्तः ॥ २६ ॥
१ ख. यत्तालुकण्ठोष्ठमना । २ ख. यद । ३ ख. कथंचि । ४ ख. स्तेनाभिग । ५ क. 'त्यं सन्मा। ६ ख. मति द्वारमथाप' । ७ ख. क्षद्वारं बि।
For Private And Personal