SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शंकरानन्दविरचितदीपिकासमेताएतदुक्तमक्षरम् । न रेचयेन्न परित्यजेत् । दिव्यमत्रेण दिवि भवेनोंकारेण मन्तुस्नाणकरेण । बहुधा कुर्यात् । स्पष्टम् । आत्ममलच्युतिमन्तःकरणदोषनाशनम् ॥२०॥ पश्चाद्ध्यायेत पूर्वोक्तं क्रमशो मत्रविबुधः ॥ स्थूलातिस्थूलसंज्ञायां नाभेरूद्धमुपक्रमः ॥ २१ ॥ पश्चादनन्तरम् । ध्यायेत ध्यायेत् । पूर्वोक्तं पुरा कथितं परं ब्रह्म । क्रमशो मरुद्धारणाग्न्योंकारात्मत्वक्रमेण । मन्त्रविदोंकारवित् । बुधः षडङ्गयोगज्ञानवान् । पादाङ्गुष्ठाद्याधारान्तं वायोरानयनं नयनं चेति सूक्ष्मगतिभेदः । आधारादानयनं नयनं चेति स्थूलो गतिभेदः । तदुभयं च सुशिक्षितयोगैरेव सुकरमिति मन्वाना मातेव श्रुतिरस्मदादिभिः सुकरं योगमाह । स्थूलातिस्थूलसंज्ञायाम् । अतिशयेन स्थूलोऽतिस्थूलः स्थूलादप्यतिस्थूलः स्थूलातिस्थूलः । नातः परं स्थूल इत्यर्थः । तस्य संज्ञाभिधानं तस्यां स्थूलातिस्थूलसंज्ञायां सत्याम् । नाभेरूचं नाभिमण्डलस्योपरि । वायोनयनानयनयोरुपक्रमः प्रथमतोऽभ्यासः करणीय इति शेषः ॥ २१ ॥ तिर्यगूर्ध्वमधो दृष्टीविनिवार्य महामतिः ॥ स्थिरस्थायी विनिष्कम्पः सदा योगं समभ्यसेत् ॥ २२ ॥ तत्रेतिकर्तव्यतामाह । तिर्यगूर्ध्वमधः । स्पष्टम् । दृष्टीनयनप्रचारान् । विनिवार्य । स्पष्टम् । महामतिः , महती विषयवैतृष्ण्यरूपा मतिर्यस्य स महामतिः । स्थिरस्थायी निश्चलावस्थानवान् । विनिष्कम्पः, विविधो निर्गतः कम्पो वाकायमनसां चलनरूपो यस्मात्त विनिष्कम्पः । सदा योगं समभ्यसेत् । स्पष्टम् ॥ २२ ॥ ताला मात्रा तथाऽऽयामो धारणा योजनं तथा । द्वादशमात्रो योगस्तु कालतो नियमः स्मृतः ॥ २३ ॥ इदानी योगप्रकारमाह । ताला मरुतामितरेतरसंघटनप्रकारः । मात्रा मरुतोऽव. स्थानकालविशेषः । तथा तद्वत् । आयामो वायोर्दीर्घता वायोः स्वातन्त्र्यमित्यर्थः । धारणा वायोः प्रदेशविशेषे संस्थापनम् । योजनमग्न्यादिभिः संबन्धकरणं वायोः । तथा तद्वत् । एते पञ्च भेदाः शिक्षणीया इति तात्पर्यार्थः । यदा त्वविजितवायुः पुमांस्तदाऽऽह । द्वादशमात्रः । द्वादशसंख्या या मात्रा अकाराद्या मात्राभिरुपलक्षित ओंकारो वा यस्मिन्नस्ति स द्वादशमात्रः । अविजितश्वासश्चतुष्प्रणवं द्वादशप्रणवं वा प्राणायामं कुर्यादित्यर्थः । योगस्तु योगार्थं क्रियमाणप्राणायामः पुनरभ्यसनीय इति शेषः । कालतो द्वादशमात्रारूपेण कालेन । नियमः प्रथमं क्रियमाणस्य प्राणायामस्ये. यत्तारूपः । स्मृतः परिकीर्तितो विद्वद्भिः ॥ २३ ॥ १ ख. लसक्ष्मं च ना । २ ख. "दृष्टि विहाय च म । ३ ख. तालमात्रादिनिष्कम्पो धा। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy