________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अमृतनादोपनिषत् । इदानीं चकारसूचितमासनं तत्स्थलं चाऽऽह । भूमौ समे शुचावित्यादिशास्त्रान्तरोक्तदेशे । दर्भासने दर्भकृष्णाजिनचैलोत्तरासने । किं बहुना दर्भासनेऽन्यस्मिन्वा । रम्ये मनःप्रसादकरे । सर्वदोषविवर्जिते निखिलदृष्टादृष्टदोषशून्ये । कृत्वा विधाय । मनोमयीं मनोविकाररूपां मानतीमित्यर्थः । रक्षां भूतप्रेतपिशाचादिरक्षणरूपां जप्त्वा जपित्वा । वै रथमण्डले वै प्रसिद्धे रथंतरसाममण्डलब्राह्मणे सामयजुष्प्रसिद्धे । अथवा विशिष्टो रथो विरथः प्रणवस्तन्मात्रान्यासादिकं वैरथं वैरथस्य मण्डलं समूहस्तस्मिन्यत्सारभूतमोंकाराख्यमिति शेषः ॥ १७ ॥
पद्मकं स्वस्तिकं वाऽपि भद्रासनमथापि वा ॥
बद्ध्वा योगासनं सम्यगुत्तराभिमुखस्थितः ॥ १८ ॥ इदानीमासनान्याह । पद्मकम् , उर्वोरुपरि पादतले निधाय पृष्ठगतं करयुगं विधाय वामेन करेण दक्षिणपादाङ्गुष्ठस्य दक्षिणेन करेण वामपादाङ्गुष्ठस्य च ग्रहणे पद्मकासनं भवति । स्वस्तिकं वाऽपि जानूोरन्तराले पादतलयोः करणं स्वास्तिकं नामाऽऽसनं भवति । वाशब्दो गोमुखादेः संग्रहार्थः । अपिशब्दोऽनियत्यर्थो यत्किचित्स्वाभ्यस्तमित्यर्थः । भद्रासनं सीवनीपार्श्वयोवृषणस्याधो गुल्फी विधाय पार्श्वपादयोः पाणिभ्यां बन्धने कृते भद्रासनं भवति । अथापि वा, अथ वेति पक्षान्तराौँ । अपिशब्दो ह्यपूर्वैः समुच्चयार्थः । बद्ध्वा निबध्य योगासनं योग उक्तस्तस्य प्राप्त्य. र्थमासनमुपवेशनं योगासनम् । सम्यग्यथावद्गुरूपदिष्टेन मार्गेण उत्तराभिमुखस्थित उत्तराशासंमुखत्वेनावस्थितः ॥ १८ ॥
नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् ॥
आकृष्य धारयेदग्निं शब्दमेवेति चिन्तयेत् ॥ १९ ॥ नासिकापुटं नासिकाया एकं छिद्रम् । अङ्गुल्या पिधाय । एकेनैकयाऽङ्गुल्या प्रच्छाद्य मारुतं प्राणप्रभञ्जनम् । आकृष्य बहिःस्थितमन्तरासमन्तान्नीत्वा धारयेद्विधारणं कुर्यात्तस्मिन्विधारित योऽन्तर्हृदये महानग्निस्तमग्निं हृदयपुण्डरीकस्थं शास्त्रैकगम्यं जातवेदसं शब्दमेव शब्दब्रह्मसारभूतमोंकारमेव न त्वन्यमित्यनेन प्रकारेण वहन्योंकारयोरभेदेन चिन्तयेयानं कुर्यात् ॥ १९ ॥
ओमित्येकाक्षरं ब्रह्म ओमित्येतन्न रेचयेत् ॥
दिव्यमत्रेण बहुधा कुर्यादात्ममलच्युतिम् ॥ २० ॥ अग्नरोंकारतादात्म्यचिन्तन उपपत्तिमाह । ओमवति स्वस्य जापकं चिन्तकं वेत्योम् । इत्योंकारानुकरणार्थः । एकाक्षरमकारोकारमकारमेलनरूपमेकमक्षरम् । ब्रह्म ब्रह्माभिधायकं तदेवाभिधानाभिधेययोस्तादात्म्याङ्गीकारात् । तस्मादोमिति । व्याख्यातम् ।
१ ग करणे । २ ग. णिबन्धेन कृतं भ' । ३ ख. मेव विचि ।
For Private And Personal