________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६२
शंकरानन्दविरचितदीपिकासमेता
कारार्थः । एवं भावमुक्तेन प्रकारेण भवनं मत्तव्यालस्य परितः स्तम्भाष्टकेऽनेकभार - लोहशृङ्खलाबद्धस्येव वायोरवस्थानमित्यर्थः । नियुञ्जीयान्नितरां योगं कुर्यात्संचिन्तनव्यापारं कुर्यादित्यर्थः । कुम्भकस्येति लक्षणं स्पष्टम् ॥ १३ ॥
अन्धवत्पश्य रूपाणि शब्दं बधिरवच्छृणु ।। काष्ठवत्पश्य वै देहं प्रशान्तस्येति लक्षणम् ॥ १४ ॥
>
इदानीं चशब्दसूचितस्य यमनियमवतो लक्षणमाह । अन्धवत् यथाऽन्धः परे - णोक्तो नीलपीतादिकमवगच्छति तद्वत् । पश्य हे पुत्रक संसारतापैः संतप्तः स्वयं नीलपीतादिसुखदुःखकारित्वबुद्धिशून्योऽवलोकय । रूपाणि शुक्लपीतादीनि । शब्दं षड्जादिस्वरमिश्रितम् । बधिरवद्यया बधिरः स्वयं शब्दविशेषज्ञानशून्यः परेणाऽऽवेदितोऽवगच्छति तद्वत् । शृणु स्पष्टम् । काष्ठवत्, यथोपेक्षणीयं हेयं वा क्रिमिकीटादिदुष्टं काष्ठं तद्वत् । पश्यावलोकय । वै प्रसिद्धम् । देहं स्थूलशरीरम् । ननु किं भवता ममैवेदं करणीयत्वेनोच्यत इत्यत आह । प्रशान्तस्य । प्रकर्षेण शमवतो यमनियमानुष्ठायिन इत्यर्थः । इति भवन्तं प्रत्युक्तेन प्रकारेण । लक्षणं गमकम् । ततो न भवत एवेत्यर्थः ॥ १४ ॥
मनःसंकल्पकं ध्यात्वा संक्षिप्याऽऽत्मनि बुद्धिमान् ॥ धारयित्वा तथाssत्मानं धारणा परिकीर्तिता ॥ १५ ॥
इदानीं धारणामाह । मनःसंकल्पकम् । अन्तःकरणाभिलाषसुखदुःखमानन्दात्मानमित्यर्थः । ध्यात्वा चिन्तयित्वा । संक्षिप्य प्रत्ययप्रवाहमुपसंहृत्य । आत्मन्यन्तःकरण आनन्दात्मनि वा । बुद्धिमानहं ब्रह्मास्मीति धीमान् । धारयित्वा तथाऽऽत्मानं यथा पूर्व प्रत्ययप्रवाह धारितोऽन्तःकरणेन तद्वदानन्दात्मानं विधार्य यदवस्थानं सा धारणा परिकीर्तिता । स्पष्टम् ॥ १५ ॥
आगमस्याविरोधेन ऊहनं तर्क उच्यते ॥
समं मन्येत यं लब्ध्वा स समाधिः प्रकीर्तितः ॥ १६ ॥
इदानीं तर्क क्षणमाह । आगमस्य । आसमन्ताद्गम्यते प्रमाणान्तरेणानवगतं धर्माधर्मात्मैक्यमनेनेत्यागमस्तस्याविरोधेन विरोधमन्तरेण । ऊहनमुत्प्रेक्षणं जातस्य स्तन्यपानादिनिदर्शनादिकं धर्माधर्मात्मसद्भाव आत्मनः सर्वगतत्वादावाकाशादिनिदर्शनं च पौरुषेयमपौरुषेयं वा । तर्क उच्यते । स्पष्टम् । इदानीं समाधिमाह । समं हस्तिपु - त्रिकादिशरीरेष्वेकरूपम् | मन्येत मननं कुर्यात्स्वचेतसि धारयेदित्यर्थः । यं ब्रह्मात्मैक्यबोधम् । लब्ध्वा प्राप्य स आत्मबोधः समाधिः प्रकीर्तितः । स्पष्टम् ॥ १६॥ भूमौ दर्भासने रम्ये सर्वदोषविवर्जिते ॥
कृत्वा मनोमयीं रक्षां जप्त्वा वै रथमण्डले ।। १७ ॥
For Private And Personal