________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अमृतनादोपनिषत् ।
६१
सोच्चारयेत् । तथाच सप्तव्याहृतीनामादौ सप्त प्रणवाः सुवरिति याजुषेण पाठेन सप्तव्याहृतिषु त्रयोदश गायत्र्यादौ शिरोमन्त्रादौ च प्रणवद्वयं वरणीयमिति सामपाठेन चतुर्विंशतिर्गायत्र्याः सुवरोमिति याजुषेणैव पाठेन षोडश शिरोमन्त्रस्य । एवं द्विषध्यक्षराणि संपद्यन्ते। तानि च त्रिगुणितानि षडशीत्यधिकं शतं भवन्ति । गायत्र्यादौ परमहं सानामधिकाराभावात्तावत्संख्याकैः प्रणवैः परमहंसैः प्राणायामः करणीय इत्यर्थादवगम्यते । न चास्य कर्तुमशक्यत्वादनधिकारः सत्यभ्यासे तस्यापि सुकरत्वात् । ततोऽभ्यासे यत्नः करणीय इति । आयतप्राणो नियमितजाठरप्रभञ्जनः । प्राणायाम उक्तः । सप्रणवव्याहृतिगायत्री शिरोमन्त्रत्रिवारपाठरूपः । उच्यते कथ्यते विद्वद्भिः ॥ १० ॥ उत्क्षिप्य वायुमाकाशं शून्यं कृत्वा निरात्मकम् ॥ शून्यभावेन युञ्जीयाद्रेचकस्येति लक्षणम् ॥ ११ ॥
इदानीं रेचकादीनां श्लोकत्रयेण लक्षणान्याह । उत्क्षिप्याऽऽधारचक्रात्कुण्डलीतन्त्रीसंघट्टनेोर्ध्वमानीय वंशपुटेनेव वायुं प्राणप्रभञ्जनम् । इडापिङ्गलयोरन्यतरनासापुटेन । आकाशं शरीरपञ्जरबहिष्ठं नभोभागं तत्रापि शून्यं कृत्वा वायोरभावं विधाय । शून्यस्वरूपकथनं निरात्मकं निर्गतस्वभावं वायुमाकाशदेशे कारणात्मनाऽवस्थितं विधायेत्यर्थः । ततः शून्यभावेन निरात्मकस्वभावेन नास्त्यत्र वायुः संसारसूत्रभूत इत्यनेनेत्यर्थः । युञ्जीयाद्योगं कुर्यादेवं चिन्तयेदित्यर्थः । तथा चैवंकर्मपुरःसरमेतच्चिन्तनम् । रेचकस्य प्राणायामभेदस्य । इत्यनेनोक्तेन प्रकारेण । लक्षणं गमकमुक्तमिति शेषः ॥ ११ ॥ वक्त्रेणोत्पलनालेन तोयमाकर्षयेन्नरः ॥
एवं वायुर्ग्रहीतव्यः पूरकस्येति लक्षणम् || १२ ||
।
'वक्त्रेण वदनेन । आस्यजलयोः संयुक्तो भयाग्रमुत्पलनालं कृत्वा तत उत्पलनालेन प्रसिद्धेन । तोयं भूम्यादिदेशस्थं नीरमाकर्षयेच्छरीरपञ्जरस्यान्तरा नयेत् । नरो मनुष्यः । विनोदेन केनचिदन्येन हेतुना वा । यथाऽयं दृष्टान्त एवमनेन प्रकारेण वामदक्षिणयोरन्यतरनासापुटेन श्रमवर्जं शनैः शनैर्वायुः प्राणप्रभञ्जनो ग्रहीतव्यो जठरपिठरान्तरा नेतव्यः । पूरकस्येति लक्षणं स्पष्टम् ॥ १२ ॥
नोच्छ्छ्रसेन्न च निश्वसेन्नैव गात्राणि चालयेत् ॥
एवं भावं नियुञ्जीयात्कुम्भकस्येति लक्षणम् ॥ १३ ॥
नोच्छ्वसेदूर्ध्वश्वासं न कुर्यान्न च निश्वसेन्निश्वासमपि न कुर्यात् । चकाराद्गलानयनादिकमपि न कुर्यात् । नैव गात्राणि चालयेत् । गात्राणि शिरःप्रभृतीनि मेरुचालनादिरूपेण न चालयेदेव । तत्करणे हि वायुप्रक्षोभेण शरीरपीडादिकं स्यादित्येव
१ ग. 'ण्डलिनीं त' । २ घ 'दिस्थनी' । ३ ख सेन च गा । ४ क. वायुं ।
For Private And Personal