SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६० शंकरानन्दविरचितदीपिकासमेता - तदुपलक्षितेन धमनेन वा । मलास्तद्धातुव्यतिरिक्ता अवयवास्तद्धातुदूषकाः । तथा तेन प्रकारेण । इन्द्रियकृता इन्द्रियैर्मनएकादशैरनुष्ठिता इन्द्रियकृताः । अनेन कर्तृत्वमिन्द्रियाणां न त्वात्मन इति दर्शितम् । दोषाः पापानि योपिदवलोकनादीनि प्रमादकृतानि । दह्यन्ते । व्याख्यातम् । प्राणनिग्रहात् । प्राणस्य पञ्चवृत्तेर्निग्रहः स्वेच्छागतिभङ्गस्तस्मात् ॥ ७ ॥ प्राणायामैर्द हेद्दोषान्धारणाभिश्च किल्बिषम् || किल्विषं हि क्षयं नीत्वा रुचिरं चैव चिन्तयेत् ॥ ८ ॥ प्रायायामैर्वक्ष्यमाणैर्दहेद्भस्मी कुर्यात् । दोषानिन्द्रियकृतान्पाप्मनो धारणाभिश्च वक्ष्यमाणाभिश्चशब्दाद्ध्यानादिनाऽपि । किल्विषं प्रतिकूलसंस्काररूपं पापं रागद्वेषादिसंस्कारानित्यर्थः । इदानीमर्थाच्यानशब्दार्थमाह । किल्बिषं व्याख्यातम् । हि प्रसिद्धमनर्थकारणम् | क्षमं नीत्वा विनाशं गमयित्वा । रुचिरं चैव रुचिकरं सर्वप्रियतममानन्दात्मानं न त्वन्यं चकारात्तदवगत्यभावेऽन्यदपि । चिन्तयेत्, विजातीयप्रत्ययशून्यं सजातीयप्रत्ययप्रवाहं तद्विषयं कुर्यात् ॥ ८ ॥ रुचिरं रेचकं चैव वायोराकर्षणं तथा ।। प्राणायामास्त्रयः प्रोक्ता रेचपूरककुम्भकाः ॥ ९ ॥ इदानीं प्राणायामस्वरूपं वक्तुं कुम्भकादीनां पारिभाषिक संज्ञामाह । रुचिरं कुम्भकं सति तस्मिन्नुचिरानन्दात्मावलोकनात् । रेचकं चैव रेचके संज्ञान्तरस्याविद्यमानत्वादेवकारमाह । रेचकमेव न त्वन्यत्संज्ञान्तरम् । अत्र चकार उक्तवक्ष्यमाणसमुच्चयार्थः । वायोः कोष्ठ्यस्य प्रभञ्जनस्य । इदं पदं रुचिररेचकाकर्षणैः समं संबध्यते । आकर्षणं पूरकम् । तथा तद्भुचिरादित्रयम् । प्राणायामाः प्राणस्यौदर्यस्य प्रभञ्जनस्याऽऽसमन्ताद्यमस्य स्वेच्छागत्युपरमस्य हेतवः प्राणायामाः । त्रयस्त्रिसंख्याकाः । प्रोक्ताः प्रकर्षेण कथिता विद्वद्भिः । तदुक्तान्प्रसिद्धैर्नामभिराह । रेचपूरककुम्भकाः । रेचकाकर्षणरुचिराः ॥ ९ ॥ सव्याहृतिं सप्रणवां गायत्री शिरसा सह || त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ १० ॥ इदानीं प्राणायामस्य साधारणं लक्षणमाह । सव्याहृतिं व्याहृतिभिः सह वर्तमानाम् । प्रणव प्रणवेन सह वर्तमानाम् । गायत्री सावित्रीं चतुर्विंशत्यक्षराम् । शिरसा सह शिरोमन्त्रेणाऽऽपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोमित्यनेन समम् । यथा चायं क्रमः पाठे प्रथममोंकारस्ततः सप्तव्याहृतयस्ततो गायत्री ततः शिरोमन्त्र इति । त्रिः, त्रिवारम् । पठेन्नातिद्रुतं नातिविलम्बितं स्पष्टंवर्ण पिपीलिकापङ्क्तिबद्ध्यारूढमुक्तं मन्त्रजातं मन १ ग. लोकात् । २ घ स्वर । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy