________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अमृतनादोपनिषत् ।
अस्वरेणाकारादिरहितेन | मकारेण बिन्द्वात्मना । पदं पदनीयं स्वयंप्रकाशमानानन्दात्मरूपम् | सूक्ष्मं दुर्विज्ञेयं बुद्धेर्दष्ट स्वयंप्रकाशम् | हि प्रसिद्धम् । आत्मत्वेन गच्छति प्राप्नोति ॥ ४ ॥
शब्दादिविषयाः पञ्च मनचैवातिचञ्चलम् || चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते ॥ ५ ॥
1
इदानीमत्राप्यशक्तस्योपायं योगं प्रत्याहारादिलक्षणमाह । शब्दादिविषयाः । शब्दस्पर्शरूपरसगन्धा विशेषेण स्वावबोधवन्तं सिन्वन्ति बघ्नन्तीति शब्दादिविषयाः । अत्र विषयशब्देन विषयिणः श्रोत्रादीलक्षयति । अथवा शब्दादयो विषया येषां श्रोत्रादीनां ते शब्दादिविषयाः । पञ्च श्रोत्रत्वक्चक्षुरसनघाणाख्याः पञ्चसंख्याक्रान्ता इन्द्रियविशेषाः । मनचैवान्तःकरणमेव च । अत्रैवकारः श्रोत्रादिष्वन्तःकरणस्य स्वातन्त्र्यदर्शनार्थः । चकारः कर्मेन्द्रियसंग्रहार्थः । अतिचञ्चलं भृशं चपलं मर्कटवच्चपलाश्च श्रोत्रादयः सकर्मेन्द्रिया यतस्ततश्चिन्तयेद्यानं कुर्यात् । आत्मनो विष्णोर्बुद्धिरूपस्य सारथेः । रश्मी निन्द्रियाश्वविधारकरज्जुरूपान्मानसान्प्रचारान् । प्रत्याहारः, विषयं विषयं प्रतिगच्छतामिन्द्रियाणां बहिर्मुखत्वादन्तरात्मन्याहरणं प्रत्याहारः । स आत्मरश्मिचिन्तनरूपः । उच्यते कथ्यते विद्वद्भिः ॥ ५ ॥
प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा ॥ तर्कचैव समाधिश्च षडङ्गो योग उच्यते ।। ६ ।।
५९
इदानीं योगाङ्गान्याह । प्रत्याहारो व्याख्यातः । तथा तद्वत् । ध्यानं विजातीयप्रत्ययशून्यसजातीयप्रत्ययप्रवाहकरणम् । प्राणायामोऽथ धारणा । तर्कश्चैव समाविश्व प्राणायामधारणातर्कसमाधीन्कण्ठत एव व्याकरिष्यति । अथशब्दोऽप्यर्थः । प्राणायामोऽप्यन्तरङ्गमित्यर्थः । चकारावनु कानामासनादीनामुक्तानां च प्रत्याहारादीनां समुच्चयार्थी । एवकारः प्रत्याहारादीनां षण्णामेवान्तरङ्गाङ्गत्वार्थो न त्वासनादीनाम् । षडङ्गः षट्संख्याकानि प्रत्याहारादीन्यङ्गान्यवयवा योगवपुषो यस्य स षडङ्गः | योगः स्वाभाविकमनोवृत्तिनिरोधोऽहं ब्रह्मास्मीति साक्षात्कारफलः । उच्यते कथ्यते विद्वद्भिः || ६ |
यथा पर्वतधातूनां दह्यन्ते धमता मलाः ॥ तथेन्द्रियकृता दोपादान्ते प्राणनिग्रहात् ॥ ७ ॥
For Private And Personal
ध्यानस्य पुरुषार्थहेतुत्वेन स्वरूपेण च प्रसिद्धत्वात्सर्वशास्त्रेषु प्राणायामस्यै पुरुषार्थहेतुत्वं स्वरूपं च वक्तमाह । यथा येन प्रकारेण । पर्वतधातूनां सुवर्णरजतताम्रादिगिरिधातूनाम् । दह्यन्ते भस्म क्रियन्ते । धमता धमनं कुर्वता पुरुषेण
१ ख षयान्पञ्च । २ ख. णधारणात् । ३ ग. स्य च पु ।