SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५० शंकरानन्दविरचितदीपिकासमेतावगत्य । उल्कावत् , उल्काऽलातप्रदीपादिकं यथाऽपवरकान्तस्थितं मण्यादिकमवलोकयितुं दीपिकादिकं हस्ते स्वीकरोति दृष्टे च तस्मिन्परित्यजति तद्वत् । तान्यधीतानि पुनः पुनरभ्यस्तानि च । अथ परब्रह्मविज्ञानानन्तरम् । उत्सृजेत्पलालमिव धान्यार्थी परित्यजेत् ॥ १॥ ओंकाररथमारुह्य विष्णुं कृत्वाऽथ सारथिम् ॥ ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः ॥ २॥ यद्यनेकशाखाध्ययने पुनः पुनरभ्यासे च न सुनिश्चितं विज्ञानं तदैवं कुर्यादित्याह । ओंकाररथं शब्दब्रह्मसारभूतशब्दाक्षरप्रणवात्मकपरब्रह्मरथम् । आरुह्याकारोकारमकारार्धमात्राफलकेषु विश्वतैजसप्राज्ञतुरीयाद्यात्मनाऽधिरोहं कृत्वा । विष्णुं व्यापिनं सर्वात्मकत्वाद्बोधमित्यर्थः । कृत्वा विधाय । अथों काररथारोहणानन्तरम् । सारथिं रथनेतारम् । इदानी गन्तव्यविशिष्टं रथिनमाह । ब्रह्मलोकपदान्वेषी । ब्रह्मोक्तं तदेव लोक्यत आत्मत्वेन स्वयंप्रकाशस्वरूपमिति लोको ब्रह्मलोकः स एव पद्यते गम्यते जीवब्रह्मतादात्म्यसाक्षात्कारेणेति ब्रह्मलोकपदं तदन्वेषणं तत्प्राप्तीच्छाऽस्यास्तीति ब्रह्मलोकपदान्वेषी । रुद्राराधनतत्परो रुद्राः समनस्कानि ज्ञानकर्मेन्द्रियाण्येकादश तेषामाराधनं तद्वृत्तिविशेषविचारणं रुद्राराधनं तस्मिन्परस्तात्पर्यवान्रुद्राराधनतत्परः । इन्द्रियेप्वप्रमत्त इत्यर्थः ॥ २ ॥ तावद्रथेन गन्तव्यं यावद्रथपथस्थितिः ॥ स्थात्वा रथपथस्थानं रथमुत्सृज्य गच्छति ॥ ३ ॥ तावत्, तावत्परिमाणं तावन्तं कालं च । रथेनोंकाराख्येन । गन्तव्यं प्राप्तव्यम् । यावद्यावत्परिमाणं यावन्तं कालं च । रथपथस्थिती रथपथस्थितिरोंकारचिन्तननिरोधः । स्थात्वा स्थित्वाऽहं ब्रह्मास्मीत्यवगत्येत्यर्थः । रथपथस्थानं रथपथस्थान ओंकारचिन्तननिरोध आनन्दात्मनि वाङ्मनसातीते । रथमोंकारलक्षणम् । उत्सृज्य गच्छति । स्पष्टम् ॥ ३ ॥ मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् ॥ ___ अस्वरेण मकारेण पदं सूक्ष्म हि गच्छति ।। ४ ॥ उत्सर्गप्रकारं दर्शयति । मात्रालिङ्गपदं मात्रा अकाराद्या लिङ्गानि स्थूलशरोरादीनि तैहिँ गम्यत आत्मा पदानि विराडादीन्यकारादिमात्रालिङ्गप्राप्याणि । मात्रालिङ्गानि च पदानि च व्याकृतात्मकान्येवं मनसि धृत्वा मात्रालिङ्गपदमित्येकवचनमाह । त्यक्त्वा नाहमस्मीतिभावेनोत्सृज्य । शब्दव्यञ्जनवर्जितं शब्दा अकाराद्याः स्वरा व्यञ्जनानि कादीनि प्रकृते मकारादीनि तैर्वजितं वाङ्मनसातीतमित्यर्थः । १ क. कारं र"। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy