SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अमृतनादोपनिषत् । यस्यैष मण्डलं भित्त्वा मारुतो याति मूर्धनि ।। यत्र तत्र म्रियेद्वाऽपि न स भूयोऽभिजायते न स भूयोऽभिजायत इति ॥ ३८॥ इत्यथर्ववेदेऽमृतबिन्दू(नादो)पनिषत्समाप्ता ।। ३ ॥ योगसाधनस्य प्रयोजनमाह-यस्येति । मण्डलं सहस्रदलमेकर्षिस्थानं यस्य साधकस्यैष मारुतो मण्डलं भित्त्वा मूर्धनि यात्युर्ध्वस्फोटेन । स यत्रं कुत्रापि मृतो मोक्षं यातीत्यर्थः । द्विरुक्तिनिश्चयाय । इतिशब्दः समाप्त्यर्थः ॥ ३८ ॥ इत्यष्टमः खण्डः ॥ ८॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां दीपिकाऽमृतबिन्दु(नाद)के ॥ इति नारायणविरचितामृतबिन्दू(नादो)पनिषद्दीपिका समाप्ता ॥ ४ ॥ ॐ तत्सद्ब्रह्मणे नमः । अमृतनादोपनिषत् । शंकरानन्दविरचितदीपिकोपेता । ॐ सह नाववत्विति शान्तिः । शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः ।। परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत् ॥१॥ व्याकरिष्येऽहममृतनादोपनिषदं शुभाम् । अमृतं ब्रह्म सर्वेषामर्पयन्ती पदे पदे ॥ शास्त्राण्यगादीनि नानाशाखाभेदभिन्नानि साङ्गविद्योपविद्यान्यात्मैक्यावगतिफलानि । अधीत्याधिगत्य पाठतोऽर्थतश्च स्वाधीनानि कृत्वेत्यर्थः । मेधावी श्रुतधारणशक्तिमान् । अभ्यस्य च पुनः पुनः । स्वाधीनपाठार्थान्यपि संवादाय स्वगुरूणां समीपे सह श्रोतृभिः स्वशिष्याणामुपदेशार्थं वा भूयो भूय आवृत्तिं कृत्वाऽपि । चशब्दात्संशयविपर्ययनिवृत्तावपि । परमं निरतिशयमनुपचरितमित्यर्थः । ब्रह्म बृहदेशकालवस्तुप. रिच्छेदशून्यम् । विज्ञाय विशेषेणेदमित्थं नान्यथाऽहमेव तन्न मत्तोऽन्यदित्यादिनाs For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy