________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अमृतनादोपनिषत् ।
५५
प्राणायाम एक आयम्यत्वेन प्राण उक्तोऽग्निहोत्रादावुपास्यत्वेन चैक उक्तस्तयोः को भेद इत्यत आह— त्रिंशदिति । त्रिंशत्संख्याकानि पर्वाङ्गुलानि मानमस्य त्रिंशत्पर्वाङ्गुलः । अङ्गुलान्यनेकप्रकाराणि सन्ति तदर्थं पर्वेति विशेषणम् । तिर्यक्चतुरङ्गुलमितस्य काष्ठस्य चतुर्थांशः पर्वाङ्गुलं तदेव मुष्टाङ्गुलम् |
तदुक्तम्
“विनाऽङ्गुष्ठेन शेषाभिर्मुष्टिमङ्गुलिभिः कृतम् । चतुर्धा विभजेदेको भागो मुष्ट्यङ्गुलं स्मृतम्” ॥
इति द्वादशाङ्गुलता । पञ्चदशाङ्गुलता चान्यत्रोक्ता सा तु मध्यमाङ्गुलिमध्यपर्व - मितादिस्थूलाङ्गुलाभिप्रायेण श्वासस्य स्थूलसूक्ष्मतारतम्याभिप्रायेण चेत्यविरोधः । तथा
च याज्ञवल्क्यः
“शरीरादधिकः प्राणो द्वादशाङ्गुलमानतः । चतुर्दशाङ्गुलं केचिद्वदन्ति मुनिसत्तमाः" इति ॥ गोरक्षेण तु षडधिकान्युक्तानि -
Acharya Shri Kailashsagarsuri Gyanmandir
" षट्त्रिंशदङ्गुलो हंसः प्रयाणं कुरुते बहिः । वामदक्षिणमार्गेण ततः प्राणोऽभिधीयते " इति ॥
वामे पञ्चदश दक्षिणे च तथेति मिलित्वा त्रिंशदिति वा न विरोधः । अयमायम्यस्वेनोक्तः प्राणः । एष प्राणो यत्र प्रतिष्ठितो यदाधारत्वेन महिमानं गतः स प्राण इति ख्यात उपास्यत्वेन प्रसिद्धः परमात्मा । तटस्थलक्षणमुक्त्वा स्वरूपलक्षणमाहबाह्येति । यो बाह्यप्राणः स गोचरो विषयो दृश्य इत्यर्थः । अर्थादन्यवस्तुदृगिति स्वरूपभेदः ॥ ३२ ॥
अशीतिः षट्शतं चैव सहस्राणि त्रयोदश ॥ लक्षचैकोऽपि निःश्वासो अहोरात्रप्रमाणतः ॥ ३३ ॥
ननु बाह्यप्राणस्य जन्मायुषि कियान्व्यापार इति पृष्टे तस्य परिगणनस्य बह्वायाससाध्यत्वादहोरात्र व्यापारपरिगणनामाह - अशीतिरिति । एकाऽशीतिः षट्शतं च त्रयोदशसहस्राणि चैको लक्षश्चाहोरात्रेणैतावान्निःश्वासोऽङ्कतोऽपि ११३६८० । अनेन मानेनाऽऽयुर्निश्वासपरिमाणं गणनीयम् । स्मृतिविरोधस्तु भवति । तत्र हि“एकविंशतिसहस्राणि षट्शतानि दिने दिने" इत्युक्तम् । हंसोपनिषदि च " षट्संख्ययैकविंशतिसहस्राणि षट्शतान्यधिकानि भवन्ति" इति । अत्रोच्यते । नासिक्य - प्राणापेक्षयाऽन्यत्र ग्रन्थे गणनेह तु रन्धान्तराणि मुखादीन्यपेक्ष्याधिक संख्योक्तिः ।
१ क. ख. 'शीतिष' । २ क. रात्रे प्र । ३ ग. श्वासे प° ।
For Private And Personal