________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अमृतनादोपनिषत् । येनासौ पश्यते मार्ग प्राणस्तेन हि गच्छति ॥
अतः समभ्यसेनित्यं सन्मार्गगमनाय वै ॥ २५ ॥ ननु प्राणस्तत्र प्रदेशे केनोपायेन नेतव्य इत्यत आह—यनति । असौ योगी येन मनोलक्षणेन करणेन मार्ग गन्तव्यं पश्यते प्रविश्य गन्तव्यतया निश्चिनोति प्राणस्तेनैव मनसा सह तत्र याति । मनसा तत्तत्स्थानध्यानमेव तत्र तत्र मूलाधारादौ प्राणप्रवेश उपाय इत्यर्थः । यतोऽयं प्राणप्रवेश उपाय उपदिष्टोऽतो नित्यं सन्मार्गगमनाय सुषुम्नामार्गप्रवेशाय समभ्यसेन्मनोधारणादि कुर्यात् । यद्यपि प्राणापानगती रुद्ध्वाऽवस्थाने पूरितोदरस्यापानेकीभूतस्य च प्राणस्य निरवकाशतयाऽर्थान्मध्यमार्ग एव विनाऽपि मनसा प्रवेशो भवति तथाऽपि सर्वेन्द्रियसंघातात्मकेन मनसा विनेन्द्रियाणां मनसश्च बहिर्व्यापारो न विरमेत्तथा च सति हठयोग एव स्यान्न राजयोग इति समनस्कप्राणप्रवेश उपदिष्टः । तदुक्तम्
"मारुताभ्यसनं सर्वं मनोयुक्तं समाचरेत् ।
इतरत्र न कर्तव्या मनोवृत्तिर्मनीषिणा” इति । तथा-"राजयोगं विना मुद्रा विचित्राऽपि न राजते" इति । राजा मन एव तेन तद्योगं विनेत्यर्थः ॥ २५ ॥
हृवारं वायुद्वारं च अर्ध्वद्वारमतः परम् ॥
मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः ॥ २६ ॥ ननु येन मनो याति तेनैव प्राण इत्यवगतं तयोर्मार्गः क्वास्तीत्यत आह-हृदिति । हृदो मनसो वायोश्च प्राणस्य द्वार प्रवेशमार्गः सुषुम्नाख्यमूर्ध्वद्वारं वर्तते कन्दादिमूर्धान्तं पृष्ठवंशगामिसुषुम्नाद्वारमस्तीत्यर्थः । तत ऊर्ध्वं किमस्तीत्यत आह । अतः परमिति । अतोऽस्माद्दारात्परं मोक्षद्वारबिलं शिरो भित्त्वा निर्गतमस्ति मोक्षस्य द्वारमुपायो ब्रह्मलोकस्तस्य बिलं तद्गमनाय विवरम् । ननु ब्रह्मलोकस्य क्रममोक्षस्थानत्वात्सूर्यमण्डले व्यवधायके सति कथं तत्र गतिरत आह-सुषिरं मण्डलमिति । सूर्यमण्डलस्य सच्छिद्रता
"द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।
अध्यात्मयोगयुक्तात्मा रणे चाभिमुखो हतः " ॥ इत्यादिस्मृतेश्चावसीयते ॥ २६ ॥
भयं क्रोधमथाऽऽलस्यमतिस्वमातिजागरम् ॥ अत्याहारमनाहारं नित्यं योगी विवर्जयेत् ॥ २७ ॥
१ ग.न्तं वं । २ ग. निर्वात ।
For Private And Personal