SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेताभस्त्रेव लोहकारस्य रेचपूरौ ससंभ्रमौ । कपालभाती विख्याता कफदोषविशोषणी" ॥ बन्धत्रयं क्षुरिकायां व्याख्यातम् । महाबन्धो यथा "पाणि वामस्य पादस्य योनिस्थाने नियोजयेत् ॥ वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा । पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् ॥ निभृत्य योनिमाकुञ्च्य मनो मध्ये नियोजयेत् । धारयित्वा यथाशक्ति रेचयेदनिलं शनैः ॥ सव्याङ्गे च समभ्यस्य दक्षाङ्गे पुनरभ्यसेत् । मतमत्र तु केषांचित्कण्ठबन्धं विवर्जयेत् ॥ राजदन्तस्थजिह्वायां बन्धः शस्तो भवेदिति । अयं खलु महाबन्धो महासिद्धिप्रदायकः ॥ कालपाशमहाबन्धविमोचनविचक्षणः। अयं च सर्वनाडीनामूर्ध्वगतिनिरोधकः" इति ॥ योनिर्गोरक्षेणोक्ता "आधाराख्ये गुदस्थाने पङ्कजं तु चतुर्दलम् । तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता" इति ॥ तस्या आकुञ्चनं पार्ष्या गुदमापीड्योोद्घातेन भवति । महावेधो यथा "महाबन्धस्थितो योगी कृत्वा पूरकमेकधीः । वायूनां गतिमाकृष्य निभृतं कण्ठमुद्रया ॥ न्यस्तहस्तयुगो भूमौ स्फिचौ संताडयेच्छनैः । पुटद्वयं समाकृष्य वायुः स्फुरति सत्वरम् ॥ सोमसूर्याग्निसंबन्धो जायते चामृताय वै । मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् । महावेधोऽयमभ्यासान्महासिद्धिप्रदायकः" इति ॥ शक्तिचालनं यथा "पुच्छं प्रगृह्य भुजङ्गी सुप्तामुद्बोधयेद्बुधः । निद्रां विहाय सा ऋज्वी ऊर्ध्वमुत्तिष्ठते हठात्" इति । अन्यत्रापि "संतप्तो वह्निना तत्र वायुना च प्रचालितः । प्रसार्य फणभृद्भोगं प्रबोधं याति तत्तदा" इति ॥ २४ ॥ इति पञ्चमः खण्डः ॥५॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy