SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५० नारायणविरचितदीपिकासमेतातालेति । अयं पदार्थो योगशास्त्रे कालतः कालेन नियत एकरूपः स्मृतः । कः पदार्थः । एका ताला वायोः कीलानां बहिःस्थस्य मध्यप्रवेशो मध्यस्थस्य च बहिरनिर्गमनं सा नियतकाला भवति । यावत्काला पूर्वदिने तावत्कालैव परदिन इति । तथा मात्रा नियतकाला भवति । षोडश पूरणे चेञ्चतुःषष्टिः कुम्भने द्वात्रिंशद्रेचन इति । तथा योगः समाधिः सोऽपि नियतकालोऽन्यथा कल्पपर्यन्तं भूविवरे समाधिमग्नस्य विदेहकैवल्याभावप्रसङ्गः । धारणा मनःसंकल्पकमित्यादिलक्षणा । साऽपि " धारयेत्पञ्चघटिका भवरोगैः प्रमुच्यते " इत्यादौ नियतकालैवोक्ता । योजनं संयोजन प्राणापानयोः । यथा पूर्वदिने चत्षोडश प्राणायामास्तहि परदिने ततो न्यूना अधिका वा न भवन्ति । द्वादशमात्रो योगो नादबिन्दावुक्तः सोऽपि कालतो नियतः स्मृतः । परस्परतुल्यकाला एव घोषिण्यादयो ध्येया इत्यर्थः । अथवैष तालादिः फलेऽपि कालतो नियतः स्मृतः । नियतकालमेव फलं ददाति परिच्छिन्नं न तु कालापरिच्छिन्नं फलं ददातीत्यर्थः ॥२३॥ अघोषमव्यञ्जनमस्वरं च अकण्ठताल्चोष्ठमनासिकं च ॥ अरेफजातमुभयोष्ठवर्जितं यदक्षरं न क्षरते कदाचित् ॥ २४ ॥ तर्हि कालापरिच्छिन्नं फलं किमत आह---अघोषमिति । यदक्षरं तदपरिच्छिन्नफलमित्यर्थः। तत्किमकारादिष्वन्यतमं नेत्याह-अघोषमिति।यदक्षरं वर्गाणां प्रथमद्वितीयाः शपसाश्चाघोषास्ततोऽन्ये घोषवन्तस्तन्न भवति।तर्हि हल्ल्यञ्जनं तद्रूपं नेत्याह-अव्यञ्जनमिति । तमुचः स्वरास्तद्रूपं नेत्याह-अस्वरमिति । न स्वरत्वं यस्य तदस्वरम् । तरंकुहविसर्जनीयानां कण्ठ इचुयशानां तालूपूपध्मानीयानामोष्ठौ तद्रूपं नेत्याह-अकण्ठताल्चोष्ठमिति । अस्वरं चाकण्ठेत्यत्राविवक्षितत्वादसंधिः । संधौ न्यूनाक्षरं छन्दः स्यात् । तर्हि नासिकाऽनुस्वारस्य तद्रूपं नेत्याह । अनासिकं चेति । तर्हि ऋटुरषाणां मूर्धा तदन्तर्भूतं नेत्याह-अरेफेति । रेफजातं रेफवर्गो मूर्धन्यस्तन्न भवतीत्यर्थः । तार्ह लतुलसानां दन्तास्तद्रूपं नेत्याह-उभयोष्ठवर्जितमिति। उभावोष्ठावावरको यस्योभयोष्ठो दन्तस्तेन तदुच्चार्यों वर्णस्तन्न भवतीत्यर्थः । यद्यप्यव्यञ्जनमस्वरमिति वर्णमानं प्रतिषिद्धमेतावन्तो हि वर्णा यब्यञ्जनानि स्वराश्च तथाऽपि सामान्यतो विशेषतश्च प्रतिषेधार्थमघोषाधुपादानम् । तर्हि किं तदक्षरं तस्य लक्षणं वक्तव्यमत आह-न क्षरते कदाचिदिति । नादान्तस्थं शान्तमित्यर्थः । यत्प्रतिपादनादमृतबिन्दुरिति ग्रन्थाभिधा । अत्रेत्थं योगप्रक्रिया । यमनियमाभ्यां क्षपितबाह्यदोषो निर्वाते तीर्थादिदेशे सिद्धक्षेत्रे वा सिद्धस्वस्तिकपद्मभद्रसिंहाद्यन्यतमदासनमालम्ब्य नियतभक् . "धौती बस्तिश्च नेतिश्च त्राटकं नौलिका तथा । कपालभातिश्चैतानि षट्कर्माणि प्रचक्षते" || इत्युक्तैः कर्मभिः प्राणसंयमैरेव वा शुद्धनाडीगणः प्राणायामाभ्यासेन सिद्धकेवल For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy