________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अमृतनादोपनिषत् । पश्चात्प्राणायामैः पापं दग्ध्वा ध्यायेचिन्तयेत् । पूर्वोक्तं शब्दमेवाभिचिन्तयेदित्युक्तम् । क्रमशोऽनुक्रमेणाकारोकारमकारार्धमात्रा लोकवेदवदौग्न्यादिसहिता(?) घोषिण्यादिमात्राक्रमसहिताश्च ध्यायेन्मन्त्र मन्त्रं निर्दिशेदुच्चरेत् । मन्त्रेत्यविभक्तिको निर्देशः । स्थूलेति । स्थूला मात्राऽशीतिप्रणवावृत्तिपर्यन्तधारणम् । तदुक्तम्- "प्रातमध्यंदिने सायमर्धमात्रे च कुम्भकान् ।
शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत्" इति ॥ अतिस्थूला ततोऽप्यधिकं धारणम् । एवं स्थूलायां मात्रायामतिस्थूलायां च मात्रायां नातिमतिशयमूर्ध्वं नयेत् । मात्रास्वतिशयं न कुर्यादित्यर्थः । कस्मान्न कुर्यात्प्रत्युतातिशये शीघ्रं सिद्धिर्भवतीत्यत आह । अतिक्रम इति । एवं हि वायोरतिक्रमो व्यतिक्रमः स्यात् । व्यतिक्रमे च दोष उक्तः
"हिक्का श्वासश्च कासश्च शिरःकर्णादिवेदनाः । भवन्ति विविधा दोषाः पवनस्य व्यतिक्रमात्" इति ॥ २१ ॥ तिर्यगूर्ध्वमधो दृष्टिं विनिर्धार्य महामतिः ॥
स्थिरः स्थायी विनिष्कम्पं तदा योगं समभ्यसेत् ॥ २२ ॥ तिर्यगिति । तिर्यगग्रे धावन्तीमूर्ध्वमाकाशगामिनीमधो वा चरणन्यस्तां दृष्टिं नेत्रकान्ति विनिर्धार्य कृत्वा महामतिः स्थूललक्षः स्थिरश्चित्तेन स्थायी दृढासनः । दृष्टेस्तिर्यक्त्वमुक्तम्
"अन्तर्लक्षं बहिर्दृष्टिनिमेषोन्मेषवजिता ।
एषा हि शांभवी मुद्रा सर्वतन्त्रेषु गोपिता" इति ॥ ऊर्ध्वत्वमप्युक्तम्-"भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी” इति ॥
अधस्त्वमप्युक्तम्- "दृष्ट्या निश्चलतारया बहिरधः पश्यन्” इति ॥ विनिष्कम्पं विशेषेण निष्कम्पं योगमुत्तमं योगं तदाऽभ्यसेत् । निष्कम्पो ह्युत्तमो योगः सकम्पो मध्यमः सस्वेदः कनीयान् । तदुक्तम्-“कनीयसि भवेत्स्वेदः कम्पो भवति मध्यमे ।
उत्तिष्ठत्युत्तमे प्राणरोधे पद्मासनं मुहुः" इति ॥ कम्पान्निष्क्रान्तोऽग्रे गतो निष्कम्प उत्तमो विशेषेण निष्कम्पोऽत्युत्तमस्तं समभ्यसेदित्यर्थः ॥ २२ ॥
ताला मात्रा तथा योगो धारणा योजनं तथा ।। दादशमानो योगस्तु कालतो नियतः स्मृतः ॥ २३ ।।
१ ग. तोऽभ्यधिकधा । २ ख. 'कम्पस्तदा । ३ म. निमिषों ।
For Private And Personal