SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४० नारायणविरचितदीपिकासमेतामतान्तरे च "मेदादुपरि विन्यस्य सव्यगुल्फ तथोपरि । गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं भवेत् ।। एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः । गुप्तासनं वदन्त्येके प्राहुर्मुक्तासनं परम् ॥ यमेष्विव मिताहारमहिंसां नियमेष्विव । मुख्यं सर्वासनेष्वेवं सिद्धाः सिद्धासनं विदुः ।। चतुरशीतिपीठेषु सिद्धमेव सदाऽभ्यसेत् । द्विसप्ततिसहस्रेषु सुषुम्नामिव नाडिषु" इति ॥ योगार्थमासनमिति वा । उत्तरेति । योगस्योत्तरमार्गप्रदत्वात् ॥ १८ ॥ नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् ॥ आकृष्य धारयेदग्निं शब्दमेवाभिचिन्तयेत् ॥ १९ ॥ नासिकेति । एक नासिकापुटमङ्गुल्या पिधायैकेन पार्थेन मारुतं वायुमाकृष्य धारयेदन्तः स्तम्भयेत् । अग्निं तेजोमयमर्थप्रकाशकं च शब्दमेवाभिचिन्तयेद्ध्यायेत्प्रणवमभ्यसेत् ॥ १९ ॥ इति चतुर्थः खण्डः ॥ ४ ॥ ओमित्येकाक्षरं ब्रह्म ओमित्येकेन रेचयेत् ।। दिव्यमन्त्रेण बहुशः कुर्यादात्ममलच्युतिम् ॥ २०॥ कं शब्दमित्यपेक्षायामाह-ओमित्येकाक्षरमिति । ओमित्येतेनैव मन्त्रेणैकेन पूरणातिरिक्तेन पार्थेन रेचयेद्वायुम् । तदुक्तम्- "बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । . धारयित्वा यथाशक्ति पुनः सूर्येण रेचयेत्” इति ॥ दिव्यमन्त्रेण प्रणवेनाऽऽत्ममलच्युति शरीरमलनाशं नाडीशुद्धिम् । प्राणायामै - डीमलाः शुष्यन्ति ततस्तासु वायुप्रचारो भवति । आत्ममलः पापं तस्य च्युतिं नाशमिति वा। यदुक्तम्-"नित्यमेवं प्रकुर्वीत प्राणायामांस्तु घोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहःकृताः" इति ॥ २० ॥ पश्चाद्ध्यायेत पूर्वोक्तं क्रमशो मन्त्र निर्दिशेत् ॥ स्थूलातिस्थूलमात्रायां नातिमूर्ध्वमतिक्रमः ॥ २१ ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy