________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अमृतनादोपनिषत् ।
४७ हने बाह्यताप्रसङ्गात् । यं लब्ध्वा प्राप्यापीष्टमप्यवमन्येतावजानीयात् । पदार्थेऽपिशब्दादिष्टमिति लम्यते । यं प्राप्य सर्वमन्यन्न रोचते स समाधिरित्यर्थः । “यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः" इति गीतोक्तेः ॥ १६ ॥
इति तृतीयः खण्डः ॥ ३ ॥
भूमिभागे समे रम्ये सर्वदोषविवर्जिते ।
कृत्वा मनोमयी रक्षां जप्त्वा चैवाथ मण्डलम् ॥ १७ ॥ भूमिभाग इति । मनोमयीमात्मचिन्तनरूपां चक्रमन्त्रादिना दिग्बन्धादिरूपां वा । मण्डलं मण्डलब्राह्मणमादित्यदेवत्यं 'यदेतन्मण्डलं तपति' इत्यादिरूपम् ।। १७ ॥
पद्मकं स्वस्तिकं वाऽपि भद्रासनमथापि वा ॥
बद्ध्वा योगासनं सम्यगुत्तराभिमुखस्थितः ।। १८ ॥ पनकमिति । पद्मकादीनां लक्षणानि योगयाज्ञवल्क्य उक्तानि
"उर्वोपरि विप्रेन्द्र कृत्वा पादतले उभे । पद्मासनं भवेदेतत्सर्वेषामपि पूजितम् ॥ जानूर्वोरन्तरे सम्यकृत्वा पादतले उभे ।
ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते" ॥ तत्रैव प्रकारान्तरेण च स्वस्तिकमुक्तम्
“सीवन्यामात्मनः पार्थे गुल्फी निक्षिप्य पादयोः । सव्ये दक्षिणगुल्फं तु दक्षिणे दक्षिणेतरम् ॥ एतच्च स्वस्तिकं प्रोक्तं सर्वपापप्रणाशनम्" इति । "गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ॥ पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।
भद्रासनं भवेदेतत्सर्वव्याधिविषापहम्" ॥ योगासनं सिद्धासनं तदुक्तं हठमदीपिकायाम्
“योनिद्वारकमङ्घिमूलघटितं कृत्वा दृढं विन्यसे
न्मेढ़े पादमथैकमेव हृदये धृत्वा समं विग्रहम् ॥ स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्ध्रुवोरन्तरं
चैतन्मोक्षकपाटभेदजनक सिद्धासनं प्रोच्यते"।
१ ख. वक्ष्यते। .
For Private And Personal