SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४४ नारायणविरचितदीपिकासमेतातावदिति। रथेनोंकारेण तावद्गन्तव्यं यावद्रथपथि गन्तव्यमार्गे स्थितः । समासान्तविधेरनित्यत्वादप्रत्ययो न कृतः । स्थित्वेति । यदा तदेत्यध्याहारः । यदा रथस्य पन्था रथपथः । समासान्तोऽकारः । तस्य स्थानं स्थितिर्निवृत्तिर्भवति । अत्र तिष्ठतिनिवृत्तौ वर्तते। तदा स्थित्वा कियत्कालं विलम्ब्य रथमुत्सृज्य त्यक्त्वा गच्छति साध्यसाधनभावरहितं स्थानं प्रविशतीत्यर्थः । “साकारोपासनापरिवासितचेतसो यतयो ब्रह्मपदवीमनुप्राप्यापवृज्यन्ते” इति श्रुतेः ॥ ३ ॥ मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् ॥ अवरेण मकारेण पदं सूक्ष्मं च गच्छति ॥ ४॥ मात्रेति । मात्रा अकारादयस्तासां लिङ्गं जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग इत्यादि तस्य पदं स्थानम् । जागरादि त्यक्त्वा शब्देन वरेण व्यञ्जनेन च मकारेण वर्जितं रहितम् । अस्वरेण स्वरातिरिक्तेन मकारेणान्तरङ्गसाधनेन सूक्ष्मं पदं तुरीयाख्यं गच्छति ॥ ४ ॥ शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् ॥ चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते ॥५॥ शब्दादीति। पञ्च विषयास्तदुपलक्षितानीन्द्रियाणि चातिचञ्चलं सर्वेन्द्रियविषयव्यापि मनश्वाऽऽत्मनः सूर्यस्थानीयस्य रश्मय इति चिन्तनमात्मैक्यापादनमिति यावत् । स प्रत्याहार इत्यर्थः । तदुक्तं याज्ञवल्क्येन "यद्यत्पश्यति तत्सर्वं पश्येदात्मानमात्मनि । प्रत्याहारः स च प्रोक्तो योगविद्भिर्महात्मभिः” इति ॥५॥ इति प्रथमः खण्डः ॥ १ ॥ प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा ॥ तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥ ६ ॥ - प्रत्याहार इति। यमनियमासनानि तु बाह्याङ्गत्वान्न गणितानि । पश्चात्त्वासनानि वक्ष्यन्ते । यमनियमौ तु "अहिंसा सत्यमस्तेयमसङ्गो हीरसंचयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्य क्षमा भयम् ॥ शौचं जपस्तपो होमः श्रद्धाऽऽतिथ्यं सुरार्चनम् । तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् ॥ एते यमाः सनियमा उभयोदश स्मताः" || १ क. रश्मि प्रत्या' । २ क. धारणम् । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy