SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः । *अमृतनादोपनिषत् । नारायणविरचितदीपिकासमेता। शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः ॥ परमं ब्रह्मविद्याया उल्कावन्नान्यथोत्सृजेत् ॥ १॥ अमृतस्य यथा बिन्दुर्मत्युं हरति देहिनाम् ॥ अल्पग्रन्थोऽप्यष्टखण्डोऽमृतबिन्दु(नाद)स्तथा ह्ययम् ॥ योगसाधनस्य प्रथमां पीठिकामाह-शास्त्राणीति। मेधावीति।अध्ययनेन तर्काम्यासेन मेधाऽपि कर्तव्येत्यर्थः । यच्छ्रतिः- पण्डितो मेधावी' इति 'बाल्यं च पाण्डित्यं च निर्विद्य' इति च । स्मृतिरपि-“यस्तर्केणानुसंधत्ते स धर्म वेद नेतरः" इति । ब्रह्मविद्यायाः परमं कारणं जीवितमिति शेषः । उल्कावच्चञ्चलं विद्युदुन्मिषिततुल्यं जीवितमन्यथा प्रकारान्तरेण कामव्यसनादिना नोत्सृजेन्ने क्षिपेत् । शास्त्राण्यधीत्य तदुक्तार्थसाक्षात्काराय प्रयतेत प्रयत्नश्च वक्ष्यमाणो योगाभ्यासः । यद्वा ब्रह्मविद्यायाः परमं कारणमध्ययनमन्यथा ज्ञानमप्राप्य नोत्सृजेत् । उल्कावद्दीपिकावत् । यथा- दीपिका तमसि मार्गे गृहीता गृहमप्राप्य नोत्सृज्यते तद्वच्छास्त्रं साक्षात्कारपर्यन्तं नोत्सृजेदित्यर्थः ॥ १ ॥ ओंकारं रथमारुह्य विष्णुं कृत्वा तु सारथिम् ॥ ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः ॥२॥ ओंकारं रथं गतिहेतुत्वाद्रथ ओंकारः। विष्णुमुकारदेवतां सारथिं कृत्वा स ह्यूवंगती प्रेरकस्तेन सारथ्यं संभवति । अकारदेवता यो ब्रह्मा तस्य यो लोको ब्रह्मसदनं तस्य पदं मार्गमन्विच्छति तच्छीलः । मकारदेवता यो रुद्रस्तदाराधने तत्परः परायणः ॥२॥ तावद्रथेन गन्तव्यं यावद्रथपथि स्थितः ॥ स्थित्वा रथपथस्थानं रथमुत्सृज्य गच्छति ॥३॥ * दीपिकाद्यश्लोकानारायणमतेनेयमुपनिषदमृतबिन्द्राख्या दृश्यते परं च शंकरानन्दमतेनेयममृतनादाख्याऽस्ति । शंकरमतमेवोचितमिति सुधीभिर्विचारणीयम् (१)। १ ग. करणं । २ ख. न निक्षि । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy