SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५३४ www.kobatirth.org नारायणविरचितदीपिकासमेता तदेव तारकं ब्रह्म त्वं विद्धि तदेवोपस्यामिति ज्ञेयम् । गर्भजन्मजरामरणसंसारमहद्भयात्संतारयति तस्मादुच्यते' तारकमिति य एतत्तारकं ब्राह्मणो नित्यमधीते से सर्व पाप्मानं तरति स मृत्युं तरति स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वहत्यां तरति स संसारं तरति स सर्व तरति सोऽविमुक्तमा श्रितो भवति स महान्भवति सोऽमृतत्वं च गच्छेतीति ॥ २ ॥ अथ लय: अर्धमात्रा तु सा ज्ञेया प्रणवस्योपरि स्थिता । पद्मसूत्रनिभा सूक्ष्मा शिखाभा दृश्यते परा ॥ सा नाडी सूर्यसंकाशा मूर्यं भित्त्वा तथाऽपरम् । द्वासप्ततिसहस्राणि सूर्य भित्त्वा तु मूर्धनि ॥ वरदः सर्वभूतानां सर्व व्याप्यैव तिष्ठति” । - "कांस्यघण्टा निनादस्तु यथा लीयति शान्तये || ओंकारस्तु तथा योज्यः शान्तये सर्वमिच्छता । यस्मिन्संलीयते शब्दस्तत्परं ब्रह्म गीयते ।। ध्रुवं हि चिन्तयेद्ब्रह्म सोऽमृतत्वाय कल्पते सोऽमृतत्वाय कल्पत इति" इति । - Acharya Shri Kailashsagarsuri Gyanmandir तदेवेति । तदेवोंकारमक्षरमेव परमं प्रकृतराममन्त्रत्रयमेव च । तारकं संसारोत्तारकं ब्रह्म परमार्थसत्यं त्वं भरद्वाज विद्धि जानीहि । तदेव मन्त्रवाच्यं मन्त्रप्रतीकं चोपास्यमुभयत्रैवकारेणामन्प्रकं ब्रह्म व्यावर्त्यते तस्य निर्गुणस्य दुर्बोधत्वात्तदेवोपास्यमित्येतावता सिद्धम् । इति ज्ञेयमिति वचनमयं परमोपदेश इति बोधनार्थम् । गर्भेत्यपादानोपदेशात्प्रभेऽपादानप्रश्नोऽपि ज्ञातव्यः । उपासनरहितपाठमात्रस्य फलमाह - एतदिति । ब्राह्मण इति - वचनादध्ययने क्षत्रादीनामनधिकारो गम्यते । नित्यमुपदेशानन्तरं यावज्जीवम् । अधीते न तु परपठितं शृणोत्येव । मृत्युं तरति यथा मार्कण्डेयो नारायणाष्टाक्षरेण मृत्युं तीर्णवान् । “भ्रूणः स्त्रीगर्भडिम्भयोः" इति विश्वः । वीरहत्यां तरति 'वीरस्तु सुभटे श्रेष्ठे' | सर्वहत्यामगणितानन्तप्राणिवधम् । सर्वं दुस्तरम् | अविमुक्तं वाराणसीक्षेत्रं यत्र तत्र स्थितो वाराणस्यामेव स्थितो भवति यत्र तत्र मृतो वाराणस्यामेत्र मृतो भवतीत्यर्थः I आश्रितो भवतीत्यस्यानन्तरं स महान्भवतीति कैश्चिच्छव्यते तेन भुक्तिरुक्ताऽमृतत्वं चेति मुक्तिरुक्ता || २ || For Private And Personal - १. 'पासितव्यमि । २ क ते षडक्षरं ता' । ३ क. सपा । ४ झ. ति मृ । ५क. ग. "च्छति ।
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy