________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५३५
श्रीरामोत्तरतापनीयोपनिषत् । अर्थते श्लोका भवन्ति
अकाराक्षरसंभूतः सौमित्रिविश्वभावनः।। उकाराक्षरसंभूतः शत्रुघ्नस्तैजसात्मकः । प्राज्ञात्मकस्तु भरतो मकाराक्षरसंभवः । अर्धमात्रात्मको रामो ब्रह्मानन्दै कविग्रहः ॥ श्रीरामसानिध्यवशाज्जगदानन्ददायिनी । उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ।। सा सीता भवति शेया मूलप्रकृतिसंज्ञिता।
प्रणवत्वात्प्रकृतिरिति वदन्ति ब्रह्मवादिन इति । ओमित्येतदक्षरमिदं सर्व तस्योपव्याख्यानं
प्रणवस्य षडक्षराणां क्रमेणाथानाह मन्त्रैः----अथैत इत्यादिना । विश्वभावनो विरचिरूपो जाग्रदभिमानी सौमित्रिः संकर्षणः । तैजसात्मकः स्वप्नाभिमानी शत्रुघ्नः प्रद्युम्नः । प्राज्ञात्मकः सुषुप्ताभिमानी भरतः । रामस्तुरीयावस्थं ब्रह्म वासुदेवाख्यम् । बिन्द्वर्थमाह--श्रीरामेति । आनन्दस्य ब्रह्मांशत्वात्केवलया प्रकृत्या स दातुमशक्य इति रामसांनिध्यापेक्षकार्यकर्ती बिन्द्वंशवाच्या कार्योन्मुखी नादांशवाच्या । सीतायाः शक्तिशान्ताख्ये अप्यवस्थे आह-प्रणवत्वादिति । वाच्यवाचकभावं त्यक्त्वा प्रण. वेन यदाऽभेदं गता तदा प्रकृतिरिति वदन्ति । ब्रह्मवादिनो ज्ञानिनः । इतिशब्दः श्लोकसमाप्त्यर्थः । ओमित्येतदक्षरमिदं सर्वमित्यादिको अन्धो माण्डूक्ये नारसिंहेऽत्र च समानस्तत्र माण्डूक्ये विस्तरेण व्याख्यातः संक्षेपेणात्र व्याख्यायते । तत्र हि प्रधान प्रणवविद्याऽत्र त्वङ्गम् । प्रणवावयवान्स्वरूपतोऽर्थतश्च व्याख्याय प्रणवं तथैव व्याख्यातमाह-ओमित्येतदिति । ओमित्यक्षरमुद्दिश्य सर्वात्मत्वं न विधीयते किंतु सर्वमुद्दिश्योंकारत्वं प्रसिद्धस्योद्दश्यत्वात् । इतिकरणमर्थविपर्यासकृदोंकारमर्थपदार्थकत्वात्प्रच्याव्य शब्दपदार्थकत्वं नयत्यन्यथा सर्वस्य प्राणादेब्रह्मात्मकत्वमेव प्रतीयेत न प्रणवात्मकत्वम् । एतद्वेदादित्वेन प्रसिद्धमक्षरं व्यङ्ग्यं पदम् । ननु साकारात्मतत्त्वप्रतिपत्तये प्रवृत्ता श्रुतिः किमर्थमोंकारस्य सर्वात्मत्वं प्रतिपादयति न ह्योंकारतत्त्वप्रतिपत्त्या साकारब्रह्मतत्त्वप्रतिपत्तिर्भवति । उच्यते । सर्वेऽर्थाः शब्दात्मका वाचारम्भणमित्यादिश्रुतेः । सर्वश्च शब्द ओंकारेण सर्वा वाक्संतृण्णेति श्रुतेः । तेनोंकारानतिरेकादाकारजातस्योंकारनिर्णयः साकारात्मप्रतिपत्त्युपायस्तस्मादिदं सर्वमोमित्येतदक्षरं ज्ञातव्यम् । तस्योपव्याख्यानम् । तस्य परापरब्रह्मरूपस्याक्षरस्योंकारस्योपव्याख्यानं ब्रह्मप्र
१ क. अत्रैते ।
For Private And Personal