SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५३२ नारायणविरचितदीपिकासमेताइत्योतमात्मिकाः सच्चिदानन्दाख्या इत्युपासितव्याः । अकारः प्रथमाक्षरो भवत्युकारो द्वितीयाक्षरो भवति मकारस्तृतीयाक्षरो भवत्यर्धमात्रश्चतुर्थाक्षरो भवति बिन्दुः पञ्चमाक्षरो भवति नादः षष्ठाक्षरो भवति तारकत्वात्तारको भवति तदुक्तम्-" रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । नरो न लिप्यते पापैर्मुक्ति मुक्तिं च विन्दति " इति ॥ एषां विधिः प्रागेवोक्तः । ओंरूपास्तद्रपा ब्रह्मरूपास्तथा सदाख्याश्चिदाख्या आन. न्दाख्याश्चेत्येवं यथासंख्यमेता रामाद्याख्या उपासितव्याः। तदुक्तं गीतायाम्---ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा" इति । किं तारकमिति प्रश्ने रामषडक्षरौ च द्वौ तारकावित्युक्तम् । ओंकारादित्रिकद्वयरूपेण यथासंख्यमुपास्या इति चोक्तम् । संप्रत्योंकारस्य षडक्षरत्वेन तारकत्वमुपपादयतिअकार इत्यादिना । अकारादयस्त्रयो मूर्ता अर्धमात्रादयस्त्रयोऽमूर्ता अकारो ब्रह्मेन्दुरुकारो विष्णुरर्को मकारः परम ईश्वरोऽग्निश्वार्धमात्रोऽर्धबिन्दुः शैवमये शिवशक्तितत्समवायवाचको ब्रह्ममये मायाब्रह्मतत्समवायवाचको वैष्णवमये लक्ष्मीनारायणतत्संबन्धवाचको बिन्दुरर्धचन्द्रोपरि लिखितो मायाघनीभावः क्रियाप्रधानता । तस्यार्थः स्वगर्भ महत्तत्त्वमिति यावत् । यदुक्तम्-"मम योनिर्महद्ब्रह्म तस्मिन्गर्भ दधाम्यहम्" इति । स बिर्थो नादः षष्ठाक्षरसरणकारात्मकः कांस्यघण्टावसाननादतुल्यस्तस्यर्तुनाता गर्भाधानकृतावधाना शक्तिमहत्तत्त्वाभिधानार्थो यत्सांख्यानां महत्तत्त्वं वैदिकानामव्याकृतं वैष्णवानामृतुस्नाता महालक्ष्मीः । एवं षडक्षरतारकब्रह्मतासिद्धये षडक्षरात्मता प्रणवस्योक्ता । अन्यत्र तु शक्तिशान्ताख्ये द्वे अक्षरे इत्यष्टाक्षरता प्रणवस्योक्ता मायाब्रह्मणी तयोरर्थः । तारकत्वादिति । तारकषडक्षरवाच्यब्रह्मतासिद्धये षडक्षरात्मता प्रणवस्यापि षडक्षरत्वेन समानधर्मेण तारकत्वादयमपि तारको भवति तारकशब्दवाच्यो भवति । अष्टाक्षरतापक्षेऽष्टाक्षरतारकमन्त्रद्वयवदस्यापि तारकत्वमित्यवधेयम् । अकारादीनामुत्तरोत्तरस्य पूर्व पूर्व प्रति कारणता ज्ञेया सा च शब्दतोऽर्थतश्च तेन ब्रह्मणः शक्तिः शक्तेर्नादो नादाद्विन्दुर्बिन्दोरर्धमाना तस्यास्त्रिधाभिन्नाया सकारादय इति । तदुक्तम्- “सच्चिदानन्दविभवात्सकलात्परमेश्वरात् । आसीच्छक्तिस्ततो नादो नादाद्विन्दुसमुद्भवः ।। १ क. स. छ. तव्यम् । अ। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy