________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्रीरामोत्तरतापनीयोपनिषत् । तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमत्र हि जन्तोःप्राणेषत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति तस्मादवि मुक्तमेव निषेवेताविमुक्तं न विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः ॥१॥ अथ हैनं भरद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकं किं तैरतीति स होवाच याज्ञवल्क्यस्तारकं दीर्घानलं बिन्दु.
पूर्वकं दीर्घानलं पुनर्माय नमश्चन्द्राय नमो भद्राय नम तस्मात्तदेवाविमुक्तमेव मन्येतेति जानीयात् । इतिशब्दो वाक्यसमाप्तौ । तस्य मननोलेखमाह-इदं वा इति । इदं यत्र वयं विचरामस्तदेव विशेषणत्रययुक्तमविमुक्तं मन्यामह इत्यर्थः । एवं कृते सत्यविमुक्तनिवासफलं तादात्म्योपासनया भवतीति भावः। नन्वस्यान्यक्षेत्रेभ्यः को विशेषोऽत आह-अत्र हीति । जन्तोः प्राणिमात्रस्य न मनुष्यस्यैव । क्रिमिकीटादयोऽप्याशु मुक्ताः सन्त्विति वरदानात् । तारकं षडक्षरं बीजं वा। तस्य किं फलमत आह—येनेति। अमृती भूत्वा ब्रह्मीभूय मोक्षी भवति । मोक्षोऽस्यास्तीति मोक्षी बन्धरहितो भवति । फलितं कर्तव्यमाह-तस्मादिति । निषेवणं चिन्तनादि देशान्तरस्थस्यापि संभवतीत्यत उक्तमविमुक्तं न विमुञ्चेदिति । एवमेवैतद्याज्ञवल्क्य इति । याज्ञवल्क्यो यदाहैवमेवैतदर्थजातमिति बृहस्पतरेनुमतिवचः । एवमेष भगवन्याज्ञवल्क्यतिपाठे हे भगवन्याज्ञवल्क्यैष भवदुक्तोऽर्थ एवमेव नान्यथेति बृहस्पतेरेवानुमतिवचः। अत्र बृहदारण्यक इव ब्रह्मविच्छिरोमणिर्याज्ञवल्क्यो वक्ता बृहस्पत्यादयः श्रोतारः सभा जनकस्य तस्य रामपरत्वात्तत्र निर्मत्सराणां समाजसंभवाच्च । बृहदारण्यके तु जल्पः । अत्र परं मुनीनां निर्मत्सरतया वाद इति विशेषः ॥ १ ॥
अथ बृहस्पतेः सद्त्तरदानानन्तरम् । ह प्रसिद्धम् । एनं याज्ञवल्क्यम् । पूर्ववाक्य आदिष्टत्वेनान्वादिश्यमानत्वादेनादेशः । द्वाभ्यां जातं भर पोषयेति दिव्यवाचोक्तस्वाद्भरद्वाजः स पप्रच्छ पृष्टवान्याज्ञवल्क्यं ब्रह्मविदम् । एवं बृहस्पतिपृष्टार्थवेत्तारं प्रष्टव्यस्वरूपमाह-किं तारकमिति । ननु तारणक्रियाकर्तृ प्रसिद्धमेवेत्याशङ्कय प्रश्नस्य विशेषविषयतामाह-किं तरतीति । यत्तरति संसारं तारयति तस्य किं स्वरूपमित्यर्थः । तरतिरन्त वितण्यर्थः । तन्त्रेण कारकान्तरस्यापि प्रश्नोऽयमस्य गर्भेत्याधुत्तरं भावि । उत्तरमाहेत्याह-स हेति । दीर्वानलं दीर्घ आकार आरूढोऽनलो रेफो यस्मिंस्तत् । तच्च बिन्दुपूर्वकं बिन्दोः पूर्वमेव पूर्वकं रा सिद्धम् । दीर्वानलं पुनस्तेन रा इति सिद्धम् । माय नम इति स्वरूपम् । चन्द्राय नमो भद्राय नम इति द्वौ मन्त्री पृथक् ।
१ ग. छ. अ. वैष भगवनिति याज्ञवल्क्यः । २ क. ग. भारद्वाजः । ३ क. तारयतीति ।
For Private And Personal