________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सद्ब्रह्मणे नमः ।
श्रीरामोत्तरतापनीयोपनिषत् ।
नारायणविरचितदीपिकासमेता ।
ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र कचन गच्छे
रामोत्तरतापनीयं स्वरूपमहिमोक्तये ।
रामचन्द्रस्य षट्त्रिंशं खण्डपञ्चकमण्डितम् ॥ १ ॥
पूर्वतापनीये राममन्त्रा यन्त्रपीठपूजा च सविधानेनोक्ता " मध्ये तारद्वयं लिखेत् " तत्सर्वं प्रणवाभ्यां च वेष्टयेत् " इति रामात्मकयन्त्राङ्गतोकारस्योक्ता तथा 'ओंकाराय नमो नमः' इति च प्रधानदेवतारूपता तस्योक्ता मूलमन्त्र निर्णयानन्तरं चाङ्गमन्त्र निर्णय उचित इति प्रणवनिर्णयार्थमुत्तरतापनीयमारभ्यते । क्षेत्रोत्तमे कृता सत्संप्रदा यागता चोपासना महाफला तदर्थमृषिसंवादेन प्रणवं निर्णयन्रामचन्द्रस्य स्तोत्रमन्त्रतोऽर्थतश्च महिमानं स्वरूपं च प्रकाशयितुमादौ क्षेत्रोत्तमं व्यनक्ति । बृहस्पतिरुवाच याज्ञवल्क्यमिति । यत्क्षेत्रमनु हीनं कुरुक्षेत्रमित्यर्थः । यतो हीनं हीनेऽनुः कर्मप्रवचनीयस्तद्योगे यदिति द्वितीया । यथा हरिमनु सुरा हरेहींना इत्यर्थः । कुरुक्षेत्रादधिकं यत्क्षेत्रं हि कुरोर्ब्रह्मणो वरदानात्क्षेत्रोत्तमं प्रसिद्धं ततोऽप्यधिकं तथा देवानामपि देवयजनं देवपूजास्थानं तथा सर्वेषां भूतानां प्राणिनां ब्रह्मसदनं ब्रह्मप्राप्तिस्थानं तत्कि - मिति वाक्पतिर्यज्ञवल्क्यापत्यं प्रत्युवाच पप्रच्छेत्यर्थः । यज्ञानां वक्ता यज्ञवल्क्यो देवरातो ब्रह्मा वा । याज्ञवल्क्यस्तत्रोत्तरयंस्तन्नामतो निर्दिशति — अविमुक्तं वा इति । न विमुक्तमीश्वरेणापरित्यक्तमविमुक्तं पार्वत्याऽऽग्रहे कृतेऽपीश्वरेण न विमुक्तं वाराणसीक्षेत्र कुरुक्षेत्रम् | अविमुक्तमेव क्षेत्रं कुर्वितिरामादेशादीश्वरण कृतत्वात् । वै प्रसिद्धम् । मुख्यं कुरुक्षेत्रम् । अत्र च लिङ्गं मत्क्षेत्र इतीश्वरोक्तिरविमुक्ते तव क्षेत्र इति रामोक्तिश्च । तथा देवानामित्यादिविशेषणद्वयं प्राग्वत् । देशान्तरं तद्दृष्ट्योपास्यं न तु तत्कुरुक्षेत्रादिदेशान्तरदृष्ट्यो पास्यमित्याह - तस्मादिति । यस्मादिदमेव क्षेत्रोत्तमं
---
For Private And Personal