SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५२६ नारायणविरचितदीपिकासमेता- [१० खण्डः ] "आवाहनादिका मुद्रा नव साधारणा मताः । तथा षडङ्गमुद्राश्च सर्वमन्त्रेषु योजयेत् ' इति ॥ ता यथा-" हस्ताभ्यामञ्जलिं बद्ध्वाऽनामिकामूलपर्वणोः । अङ्गुष्ठौ निक्षिपेत्सेयं मुद्रा त्वावाहनी मता ॥ अधोमुखी त्वियं चेत्स्यात्स्थापिनी मुद्रिका मता। उच्छ्रिताङ्गुष्ठमुट्योस्तु संयोगात्संनिधापनी ॥ अन्तःप्रवेशिताङ्गुष्ठा सैव संरोधिनी मता। उत्तानमुष्टियुगुला संमुखीकरणी मता ॥ देवताङ्गे षडङ्गानां न्यासः स्यात्सकलीकृतिः । सव्यहस्तकृता मुष्टिी धोमुखतर्जनी ॥ अवगुण्ठनमुद्रेयमभितो भ्रामिता सती। अन्योन्याभिमुखाश्लिष्टकनिष्ठानामिका पुनः ॥ तथैव तर्जनीमध्या धेनुमुद्रा समीरिता । अमृतीकरणं कुर्यात्तया साधकसत्तमः ॥ अन्योन्यग्रथिताङ्गुष्ठप्रसारितकराङ्गुलिः । महामुद्रेयमाख्याता परमीकरणे बुधैः ॥ प्रयोजयेदिमा मुद्रा देवताह्वानकर्मणि" । अङ्गव्यूहानि जलाधैरिति । हृदयादीन्युदकादानाद्यैः पाधादिभिः संपूज्येत्यर्थः । अङ्गव्यूहानिलजाबैरितिपाठेऽङ्गव्यूहैरनिलजाद्यैर्हनुमदाद्यैश्च साकं देवं पूजयेदित्यन्वयः । अङ्गव्यूहानि नलायैरिति तु युक्तः पाठः । नलाद्यैर्नीलाद्यैः षोडशभिः सहेत्यर्थः । तेषां स्थानानि । 'आग्नेय्यादिषु कोणेषु हृदयादीनि पूजयेत् । नेत्रमने दिशास्वस्त्रम्' इति । अङ्गमुद्रा यथा "अङ्गन्यासस्य या मुद्रास्तासां लक्षणमुच्यते ॥ अनङ्गुष्ठा ऋजवो हस्तशाखा भवेन्मुद्रा हृदये शिरस्यपि । अधोङ्गुष्ठा खलु मुष्टिः शिखायां करद्वंद्वाङ्गुलयो वर्मणि स्युः ॥ नाराचमुष्टयुद्धतबाहुयुग्मका अङ्गुष्ठतर्जन्युदितो ध्वनिस्तु ॥ विष्वग्निषक्तः कथिताऽस्त्रमुद्रा यत्राक्षिणी तर्जनी मध्यमे स्तः । नेत्रत्रयं तत्र भवेदनामा षडङ्गमुद्राः कथिता यथावत् " इति । वर्मणि विशेष आगमान्तरे "तथाविधाभ्यां पाणिभ्यां वर्म स्कन्धादिनाभिगम्" इति । १ घ. 'मीकार । २ घ. स्वस्रम्'। ३ ङ. विष्टग्नि । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy