SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ १० खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् । : तज्ज्ञातव्यम् । बीजाढयं कर्णिकारूपं क्रमादनुक्रमेण भावयेत्पूजयेत् । बीनाधमितिपाठे स्वाद्यक्षरं बीनाद्यमों सं सत्त्वाय नम इति ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ आशाव्याशास्वप्यथाऽऽत्मानमन्तरात्मानं च परमात्मानमन्तः ॥ ज्ञानात्मानं चार्चयेत्तस्य दिक्षु मायाविद्ये ये कलापारतत्त्वे ॥५॥ आशाव्याशास्विति । दिक्षु विदिक्षु चाष्टौ पद्मपत्राणि पूजयेदिति शेषः । अथेति । आत्मानं लिङ्गमन्तरात्मानं जीवं परमात्मानमीश्वरं ज्ञानात्मानं ब्रह्मबिन्दुनाद. शक्तिशान्तात्मकानेतानन्तर्मध्येऽर्चयेत् । मायाविद्ये कलापारतत्त्वे कलातत्त्वं परतत्त्वं चैतानि तत्त्वानि दिक्षु चत्वारि तत्त्वानि पूज्यानि । तदुक्तम्-"आनन्दकन्दं प्रथम संविन्नालमनन्तरम् । सर्वतत्त्वात्मकं पद्ममभ्यर्च्य तदनन्तरम् ॥ मन्त्री प्रकृतिपत्राणि विकारमयकेसरान् । पश्चाशद्वर्णबीनाढ्यां कर्णिकां पूजयेत्ततः ॥ कलाभिः पूजयेत्सार्ध तस्यां सूर्येन्दुपावकान् । प्रणवस्य त्रिभिर्वर्णैरथ सत्त्वादिकान्गुणान् ।। आत्मानमन्तरात्मानं परमात्मानमर्चयेत् । ज्ञानात्मानं च विधिवत्पीठमन्त्रावसानिकम् " इति । तत्त्वपूजायों मायातत्त्वाय नमः । विद्यातत्त्वाय नमः । कलातत्त्वाय नमः । परतत्त्वाय नम इति प्रयोगः । स्मृतौ तु-“मायातत्त्वकलातत्त्वं विद्यातत्त्वं परं तथा" इति क्रमभेदः स तु रामपूनायां विशेषश्रुत्या बाध्यते ॥ ५ ॥ संपूजयद्विमलायाश्च शक्तीरभ्यर्चयेद्देवमावाहयेच्च ॥ अङ्गन्यूहानि जलाद्यैश्च पूज्य धृष्ट्यादिकैलॊकपालैस्तदस्तैः॥६॥ विमलांद्याश्चेति। "विमलोत्कर्षणी ज्ञानक्रिया योगेति शक्तयः । प्रही सत्या तथेशानाऽनुग्रहा नवमी मता " इति ॥ ताँसां स्थानमुक्तम्-" पठिशक्तीः केसरेषु मध्ये च सवराभयाः" इति । पीठमन्त्रो नारायणीय उक्तः । यथा-" ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगयोगपद्मपीठात्मने नमः” इति । देवमावाहयेचेति । मूलमन्त्रेणाऽऽहूतो भवेत्याद्युक्त्वाऽऽवाहनादिमुद्राः प्रदर्शयेत्ता उक्ताः । १७. पारतत्त्वं । २ क. च. 'कृतप । ३ . यां मां मा । ४ रु. 'मः । वि वि'। ५ क. 'मः । क क । ६ क. 'मः । पं ५। ७ क. ख. ग. छ. 'लादीश्च । ८ ङ. °व्यूहैरनिलजाये । ९ क. ग. 'निलजाथै। १० घ. उ. 'लादीचे । ११ . "कर्षिणी। १२ घ. इ. ज्ञानाकि । १३ . भामा १४ घ. 'प्रपिच्छात्म। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy