SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ १० खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् । षट्कोणं बिन्दुभिः षडभिर्युतं बीजेन चिन्तयेत् । भ्रूमध्याद्ब्रह्मरन्ध्रान्तं वर्तुलं ध्वजलाञ्छितम् ॥ धूम्रवर्ण स्वबीजेन युतं ध्यायेन्नभस्तलम् । एवं ध्यात्वा पुनस्तानि भूतानि प्रविलापयेत् ॥ पृथ्वीमप्सु च ता वह्नौ वहिं वायौ समीरणम् । प्रविलाप्य तथाऽऽकाशेऽप्याकाशं प्रकृतौ ततः ॥ अपरब्रह्मरूपां तां मायाशक्तिं परात्मनि । इत्थं समस्तदेहादिप्रपञ्चं परमात्मनि ॥ प्रविलाप्य परब्रह्मरूपस्तिष्ठेत्कियत्क्षणम् । पुनरुत्पादयेद्देहं पवित्रं परमात्मनः ॥ शब्दब्रह्मात्मिका माया मातृका प्रकृतिः परा। अनायत जगन्मातुराकाशं नभसोऽनलः ॥ समीरणादभूद्वहिर्वढेरापस्ततो मही। स्वीयमेभ्योऽपि भूतेभ्यस्तेजोरूपं कलेवरम् ॥ देवताराधने योग्यमुत्पन्नमिति भावयेत् । तस्मिन्देहे परात्मानं सर्वशं सर्वशक्तिमत् ।। समस्तदेवतारूपं सर्वमन्त्रमयं शुभम् । आत्मरूपेण देहे स्वे बीजभावेन तिष्ठति ॥ इत्येषा भावना मुख्या भूतशुद्धिरितीरिता । अथवाऽन्यप्रकारेण भूतशुद्धिविधीयते ॥ धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् । ऐश्वर्याष्टदलं चैव परं वैराग्यकर्णिकम् ॥. स्वीयहृत्कमलं ध्यायेत्प्रणवेन विकाशितम् । कृत्वा तत्कर्णिकासंस्थं प्रदीपकलिकाकृतिम् ॥ सुषुम्नावमनाऽऽत्मानं परमात्मनि योजयेत् । योगयुक्तेन विधिना सोऽहंमन्त्रेण साधकः ॥ तत्रैव सर्वतत्त्वानि विलीनानि विचिन्तयेत् । ततस्तु पुंनिभं पापमनादिभवसचितम् ॥ ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् । सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ॥ .......... तत्संयोगिपदद्वंद्वमङ्गप्रत्यङ्गपातकम् ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy