SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेता- [१.० खण्डः ] अपुत्रिणां पुत्रदं च बहुना किमनेन वै ॥ प्रामुवन्ति क्षणात्सम्यगत्र धर्मादिकानपि ॥ १२ ॥ अनेनोक्तेन धर्मादिकान्धर्मार्थकाममोक्षान् । धर्मज्ञानवैराग्यैश्वर्याणि वा । अपिशब्दादणिमादिसिद्धीरपि ॥ १२ ॥ इदं रहस्यं परममीश्वरेणापि दुर्गमम् ॥ एवं यत्रं समाख्यातं न देयं प्राकृते जन इति ॥ १३ ॥ (९३) इति श्रीरामपूर्वतापनीयोपनिषदि नवमः खण्डः ॥९॥ ईश्वरेण सर्वसिद्धिमताऽप्युपदेशं विना दुर्गममगम्यम् । प्राकृते विशेषानुग्रहानर्हे । इतिशब्दो यन्त्रविधानसमाप्तौ खण्डसमाप्तौ च ॥ १३ ॥ इति दीपिकायां नवमः खण्डः ॥ ९ ॥ भूतादिकं शोधयेद्वारपूजां कृत्वा पद्माद्यासनस्थः प्रसन्नः ॥ अर्चाविधावस्य पीठाधरोर्च पार्थार्चनं मध्यपद्मार्चनं च ॥ १ ॥ कृत्वा मृदुश्लक्ष्णसतूलिकायां रत्नासने देशिकं चार्चयित्वा ।। शक्तिं चाऽऽधाराख्यकां कर्मनागौ पृथिव्यब्जे स्वासनाधः प्रकल्प्य॥२॥ विघ्नं दुर्गा क्षेत्रपालं च वाणीं बीजादिकांश्चाग्निदेशादिकांश्च ॥ पीठस्याङ्घ्रिष्वेषु धर्मादिकांश्च नन्पूर्वीस्तांस्तस्य दिश्वर्चयेच्च ॥ ३ ॥ मध्ये क्रमादर्कविध्वग्नितेजांस्युपर्युपर्युत्तमैचितानि ॥ रजः सत्त्वं तम एतानि वृत्तत्रयं बीजाढ्यं क्रमाद्भावयेच्च ॥ ४ ॥ भूतादिकं शोधयेदिति । भूतानि पृथिव्यादीनि पञ्च । आदिशब्दान्महदहंकारादि तच्छोधयेदात्मनि विलापयेत् । भूतशुद्धिः प्राणप्रतिष्ठाया मातृकान्यातस्य चोपलक्षणम् । भूतशुद्धिप्राणप्रतिष्ठे मातृकान्यासं च कुर्यादित्यर्थः । तत्करणप्रकारस्तु "भूतशद्धिं ततः कुर्यात्तत्प्रकारोऽधुनोच्यते । पादतो जानुपर्यन्तं चतुरस्त्रं सवज्रकम् ।। लंयुतं पीतवर्णं च भुवः स्थानं विचिन्तयेत् । जान्वोरानाभिचन्द्रार्धनिभं पद्मेन लाञ्छितम् ।। शुक्लवर्णं स्वबीजेन युतं ध्यायेदपां स्थलम् । नाभितः कण्ठपर्यन्तं त्रिकोणं रक्तवर्णकम् ॥ सस्वस्तिकं सबीजेन युतं वह्नस्तु मण्डलम् । कण्ठाभ्रूमध्यपर्यन्तं कृष्णं वायोस्तु मण्डलम् ॥ १क. घ. इदं। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy