SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५१९ [ ९ खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् । ५१९ पीताम्बरं स्मितसुधामधुरं मुरारि संचिन्तयेन्मिथिलराजसुतासहायम् । जपेद्द्वादशलक्षं च ध्यात्वैव विजितेन्द्रियः ।। वैल्वैः फलैः प्रसूनैश्च पत्रैस्त्रिमधुरप्लुतैः । मधुरत्रययुक्तेन पयोन्नेन सिताम्बुजैः ।। होमं दशांशतः कुर्यात्तथा सर्वत्र तर्पणम् । प्राक्प्रोक्ते पूजयेत्पीठे मूर्त्यां चाऽऽवाह्य देवताम् ॥ प्रथमाऽङ्गावृतिः प्रोक्ता सप्तमी ज्यासमीरिता । लक्ष्मणो भरतश्चैव शत्रुघ्नश्च हनूमता ॥ सुग्रीवः पञ्चमः प्रोक्तः षष्ठ उक्तो विभीषणः । अङ्गदः सप्तमः प्रोक्तो नीलोऽष्टम उदाहृतः ।। नारदश्च वसिष्ठश्च वामदेवस्तृतीयकः । जाबालो गौतमश्चापि भरद्वाजोऽथ कश्यपः ॥ वाल्मीकिश्चाष्टमः प्रोक्तो लक्ष्मीश्चाथ सरस्वती । रतिः प्रीतिः कीर्तिकान्ती तुष्टिः पुष्टिरिमाः क्रमात् ।। सृष्टिर्नयन्तविजयौ सिद्धार्थः कार्यसाधकः । अशोकश्चैव पूर्वस्यां श्रीवत्सश्च गदा तथा । पाञ्चजन्यः कौस्तुभाख्यो वनमाला च दक्षिणे । उत्तरे चक्रपद्मे च शार्ङ्गबाणं सखड्गकम् ॥ पश्चिमे धर्मगरुडधर्मपालसुमन्त्रकान्" ॥ इत्युक्तक्रमादेकैकस्मिन्षडन्त्ये पञ्चेति क्रमेण । अस्योद्धारोऽन्यत्राप्युक्तः "नमो भगवते ब्रूयाच्चतुर्थ्या रघुनन्दनम् । रक्षोन्नविशदायेति मधुरादि समीरयेत् ।। प्रसन्नवदनायेति पश्चादमिततेजसे । बलाय पश्चाद्रामाय विष्णवे तदनन्तरम् ।। प्रणवादिनमोन्तोऽयं मालामनुरुदीरितः" इति ॥ १० ॥ इदं सर्वात्मकं यत्रं मागुक्तमृषिसेवितम् ॥ सेवकानां मोक्षकरमायुरारोग्यवर्धनम् ॥ ११ ॥ सर्वात्मकं त्रैलोक्यमयम् । प्रायुक्तं पूर्वाचार्यैरुक्तम् । अथवा सर्वयन्त्राणामादावुक्तं मुख्यत्वात् । यद्वा प्रागुक्तं विना यन्त्रेण चेत्पूजेत्यत्रोद्दिष्टम् ॥ ११ ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy